SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ( ४ ) संसारमाया - नवलिप्त - जन्मतः, शीलप्रभाभासित यो मुनीश्वरः । धुरन्धरः शास्त्रविशारदस्तथा श्रीदक्षसूरिः प्रणमामि सद्गुरुः || ४ || ( ५ ) तेषां पट्टधरो मुख्यः, अनुजो हि सहोदरः । सुति समाख्यातः, शास्त्रेषु व्यसनं मम ॥५॥ राजस्थाने हि प्रख्याते, मरुधरप्रदेशके । शुभे फलोधितीर्थे वै तीर्थमाला महोत्सवे ॥६॥ श्रीफलवृद्धिपार्श्वेश - स्यानुभावाच्च गुरोरपि । साहित्याकरग्रन्थेभ्यो, विलोकनाच्च चिन्तनात् ॥ ७ ॥ वेद वेद नभोनेत्रे [२०४४], मिते वैक्रमवत्सरे । माघे च शुक्लसप्तम्यां तिथौ च सोमवासरे ॥ ८ ॥ साहित्यरत्नमञ्जूषा, संक्षिप्ता कृतवान् मुदा । युता पञ्चपरिच्छेदः, सानन्दा पूर्णतामिता ॥ ६ ॥ यावत् मेरु-रवीन्दु-भू, ग्रह-नक्षत्र - तारकाः । स्थीयात् तावदयं ग्रन्थः, सर्वेषां हितसाधने ॥। १० । । साहित्यरत्नमञ्जूषा - २६३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy