________________
त्रिविधोप्ययं प्रकृतानेकविषयप्रकृताप्रकृतानेकविषयश्चेति त्रिविधः । अत्र प्रथमे द्वितीये च भेदे विशेषस्य श्लिष्टतायां कामचारः, तृतीयभेदे तु विशेषण - वाचकस्यैव पदस्य श्लिष्टत्वं न विशेष्यवाचकपदस्यापि । तथात्वे तु शब्दशक्तिमूलध्वनेः उच्छेदः एव स्यात्, पादश्लेषस्य खण्डश्लेषः, भङ्गश्लेषश्चेति द्वौ भेदौ । तत्र च खण्डश्लेषस्येदं लक्षणम्"प्रत्येक - वाक्यार्थं प्रतिपदानां शब्दानां भिन्नार्थकता तहि खण्डश्लेषः।" अन्यच्च "समस्तपदावयवस्यैकरूपस्यैवार्थभेदेन वाक्यार्थ द्वय प्रतिपादकत्वं खण्डश्लेषः। ___श्लेषालङ्कारविषये तावदयं विचारः प्रस्तुतो ग्रन्थान्तरेषु तथाहि- शब्दयोः जतु काष्टन्यायेन सभङ्गः श्लेषः शब्दगतः, शब्दाभेदाद् - एकवृन्तगतफलद्वयन्यायेन अभङ्गश्लेषः अर्थनिष्ठः । केषाञ्चिन्मते सभङ्गाभङ्गोभयात्मकश्चेति । त्रिधा । सभङ्गो यथा
पथकारीस्वरपात्रं, भूषितनिःशेषपरिजनं देव ! ।
विलसत् करेणुगहनं, सम्प्रति सममावयोः सदनम् ॥१॥ अभङ्गो यथाकिं तत्रास्ति निरन्तरं न भवतः सङ्गः कुरङ्गीदृशां , किं वा तत्र तथा पयोधरपरिष्वङ्गोऽपिनालादकः । यन्मामत्र विहाय निर्वृतिमना नाथोज्जयन्तं गतः , पायाद् वोऽभिहितः स भोजसुतया देवः शिवानन्दनः ॥१॥
साहित्यरत्नमञ्जूषा-१८३