________________
कलिकालसर्वज्ञश्रीमद्हेमचन्द्रसूरीश्वराणां मतेऽपि रीतयः षटैव कथिताः । तेषां मते पातुर्यमाचतुर्थं यथा तथा पदैः समासः स्यात् तदा पाञ्चाली रीतिः। प्रा समाप्तं च यथा स्यात् तथा पदैः समासः स्यात् तथा लाटीया लाटदेशप्रिया रीतिः । अष्टमादिभिर्यथेष्टै: पदैः समासो यदा तदा गौडदेशप्रिया गौडीया रीतिः । सर्वथापि समासो यदा न स्यात् तदा वैदर्भी रीति विदर्भदेशप्रिया । द्वित्रिचतुष्पदानां समासे पाञ्चाली, पञ्च-षट्-पदानां समासे लाटीया, अष्टमादियथेष्टपद-समासे गौडीया, सर्वथा समासाभावे वैदर्भी रीतिः, पाञ्चालदेशे भवा पाञ्चालिकी, लाटदेशे भवा लाटीया, गौडदेशे भवा गौडीया, विदर्भदेशे भवा वैदर्भीः रीतयः प्रसिद्धाः । रसमनतिक्रमेति यथा रसं रीतयः भवन्ति । शृङ्गारे वैदर्भी, रौद्र-वीरयोगौंडीया, अन्यत्र पाञ्चाली-लाटीये रीती स्तः ।
साहित्यदर्पणे रीतिलक्षणमाह-"पद-संघटना रीतिः अङ्गसंस्थाविशेषवत् ।" रीयते गुणानां विशेषो ज्ञायतेऽनया इति रीतिः । 'रीङ् गतौ' इति धातोः स्त्रियां क्तिन् । यद्यपि रौद्र-वीरयोर्गोडीया रीतिर्भवति, तथापि कुत्रापि वक्तुरौचित्याद् वोरेऽपि वैदर्भीरीतिर्भवति । यथा- “भो लङ्कश्वर ! दीयतां जनकजा रामः स्वयं याचते' इत्यादौ वीरे
साहित्यरत्नमञ्जूषा-१६३ ।