________________
गर्जितमेव, अतो ध्वनिशब्दो समुद्रजशब्देऽशक्तः तदर्थबोधेऽसमर्थः । विदधदित्यादौ कुर्वदित्यादावर्थेऽभिधिये यद् दधद् प्राद्यं यस्मिन् - तत् पदं दधदाधम् । यदुपसर्गसम्बन्धेन यो धातुः यादृशार्थबोधकः तदुपसर्गादिविनैव तादृशार्थबोधकतया तस्य धातोः प्रयोगेऽवाचकदोषः । विवक्षितार्थ द्योतकोपसर्गादि- सम्बन्धाभावेऽपि तत् सम्बन्धजन्यार्थ - प्रतिपादकतया तत् प्रयुक्तत्वं प्रवाचकत्वम् । यथा
इति
"डुधाञ् धारण-पोषणयोः" इति धातु व्युपसर्गसहित एव करणार्थे वर्त्तते । नान्यथा, यदि धा धातोः करणार्थे प्रयोगः इष्यते तदा व्युपसर्गसहितस्यैव प्रयोगः [ विधत्ते ] इत्यादि । वि-उपसर्ग रहितस्य तु न । तस्य धारणार्थकत्वात् । यदि धारणार्थकस्य वि उपसर्ग - रहितस्य धा धातोः करणार्थे प्रयोगः स्यात् तदाऽवाचकदोषः जायते । "ते नभस्तलं सूर्यः प्ररुणं प्रखरैः करैः । "
1
" अश्लीलम् " 'असभ्यार्थान्तरव्यञ्जकत्वं अश्लीलम् श्रथवा मनोवैकल्यजनकं अश्लीलम् । यथा
" मनीषिताः सन्ति गृहेऽपि देवतास्तपः क्व वत्से ! च तावकं वपुः ।
साहित्यरत्नमञ्जूषा - १४७