________________
ओजः चित्तस्य विस्तारकं दीप्यत्वमुच्यते । चित्तोत्साह - पूर्वकदीप्तिजनकं श्रोजः । एतद् वीररसे बीभत्से ततश्च रौद्ररसेऽतिशयित्वमाप्नोति ।
वर्गस्याद्य तृतीयाभ्यां युक्तौ वरणौ तदन्तिमौ । उपर्यधो द्वयोर्वा सरेफौ ट ठ ड ढैः सह । षकारश्च षकारश्च तस्य व्यञ्जकतां गताः ।
उत्साहाद्याकारानुविद्ध चमत्कारोद्बोधेन भूयमान उत्साहाद्यविषयक चमत्कारोद्बोधः प्रजः । वीरापेक्षया बीभत्से तदपेक्षया रौद्रे प्रोजस प्राधिकयम् अतिशयः । रौद्रवीरे च निष्प्रतिभटमोजः, बीभत्सेतु माधुर्य लेशानुविद्धम्, हास्याद्भुतभयानकेषु द्वयोः समावेशो ध्वनिसिद्धान्त-संग्रहोक्तरीत्या ज्ञेय । एतन्मते बीभत्सापेक्षया रौद्रवीरयोरोजस प्राधिक्यम् । औद्धत्यशालिनी डम्बरा, सा च संयुक्त वर्णबाहुल्येन भवति चञ्चदिति व्याख्यातमिदम् । समासबाहुल्यडम्बरबन्धयोः प्रोजो व्यञ्जकत्वं वर्गस्यादीत्युक्तवर्णस्य ।
यथा
अनेन च्छिन्दता मातुः कण्ठं परशुना तव । बद्धस्वर्घः कृपारणोऽयं, लज्जते मम भार्गव ! ॥
अत्र तृतीयपादे दकारयुक्तौ धकारौ प्रोजो व्यञ्जकौ । साहित्यरत्नमञ्जूषा - १३४