________________
(४) रौद्रः रौद्रः क्रोधस्थायीभावो, रक्तो रुद्राधिदैवतः। आलम्बनमरिस्तत्र, तच्चेष्टोद्दीपनं मतम् ।। मुष्टिप्रहारपातन-विकृतच्छेदावदारणैश्चैव । संग्राम-संभ्रमाद्यैरस्योद्दीप्तिर्भवेत् प्रौढा ॥ भ्र विभङ्गोष्ठनिर्देश, बाहुस्फोटन तर्जनाः । आत्मावदान कथन-मायुधोत्क्षेपणानि च ॥ उग्रतावेगरोमाञ्च, स्वेद-वेपथवो मदः । अनुभावास्तथाक्षेप, क्रूर-संदर्शनादयः । मोहामर्षादयस्तत्र, भावा स्युः व्यभिचारिणः ॥
क्रोधस्थायिभावः, शत्रुरालम्बनः, तच्चेष्टोद्दीपनः, भ्र भङ्गबाहुस्फोटनोग्रतायुधग्रहणादा अनुभावाः, मोहामर्षादयो व्यभिचारिणः, यत्र तत्र रौद्ररसः । रौद्ररसस्य स्थायीभावः क्रोधो भवति । तथाऽस्य वर्णः रक्तः, रुद्रदैवतः, शृङ्गार-हास्य-भयानकैः सह विरोधः । अस्मिन् रसे आलम्बनः शत्रुः भवति। तच्चेष्टोद्दीपनः मुष्टिप्रहारपातनविकृतच्छेदावदारणं युद्धोत्साहादिप्रदीप्तिः, भ्र भङ्गोष्ठानिदर्शनबाहुपादानां स्फोटनं कृतिश्चोग्रतावेगरोमाञ्चादयः
१. रक्तवर्णः, रुद्रदेवतः, शृङ्गारहास्यभयानकः सह विरोधी।
साहित्यरत्नमञ्जूषा-१०७