________________
३
॥ अथ तृतीयः परिच्छेदः ॥
'कथं कवित्वसंप्राप्तिः ? ' इत्यस्य निरूपणं प्रथमपरिच्छेदे कृतम् । तदनन्तरं 'कवेः शिक्षा च कीदृशी ?" इत्यस्य निरूपणमपि द्वितीयपरिच्छेदे कथितं च । अत्र 'कश्च काव्ये चमत्कारः ? ' इत्यस्य निरूपणं क्रियते ।
रसस्वरूपम्
अभिधामूलो विवक्षितान्यपरवाच्यो नाम ध्वनिकाव्ये चमत्कारः । तत्र चमत्कारो नाम प्रह्लादकत्वम् । तदाह्लादकत्वं ध्वनेः चामत्कारित्वं काव्ये । केषांचित् मतं 'वाक्यं रसात्मकं काव्यम् ।' रसात्मकता ध्वनेः अनिर्वचनीयता आस्वाद्यन्ते रसज्ञैः ।
प्रोक्तं ध्वनिः प्रथमतो द्विविधः असंलक्ष्यक्रमव्यङ्गेन संलक्ष्यक्रमव्यङ्गेन । यथा असंलक्ष्यक्रमोद्योतः क्रमेण द्योतितः परः विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ।
साहित्यरत्नमञ्जूषा - ε२