________________
'अपवादोऽपि' अत्र कथ्यते
तथाहि
देवतावाचकाः शब्दाः , ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्यु-लिपितो गरगतोऽपि वा ॥१॥
* द्वितीयपरिच्छेदस्य सारांशः * अद्वितीये द्वितीयेऽस्मिन्, परिच्छेदे मया मुदा । वरिणता च कवेः शिक्षा, छन्दोज्ञानपुरस्सरा ॥१॥ छन्दः शास्त्रार्णवे प्रोक्त, छन्दसां कौशलं परम् । मात्राक्षरविभेदेन, द्विधा छन्दो बुधैर्मतम् ॥ २॥ कविता वनिता हासे, प्रकाशे परमेऽद्भुते । विषमान्यपि वृत्तानि, विकसन्ति विलसन्त्यपि ॥ ३ ॥ विषमेष्वपि वृत्तेषु, स्यात् प्रवेशोऽल्पमेधसाम् । द्वितीयेऽस्मिन् परिच्छेदे, दिङ्मात्रमिह दर्शितम् ॥ ४ ॥ कविना विदुषा भाव्यं, सुगरणायोजकेन च । फलदः सुगरणः प्रोक्तो, नेतरो विपरीततः ॥ ५ ॥ शुभाऽक्षराणां योगोऽपि, फलवान् गुरगवान् मतः । अतः काव्य-कलापूर्णैः, पूरणीयाः सदक्षराः ॥ ६ ॥ एकः शब्दः सुविज्ञातः, सम्यग्योगमुपागतः। करोति कत्ति प्रीतिञ्च, सत्साहित्यसंयुतः ।। ७ ।।
साहित्यरत्नमञ्जूषा-६०