________________
यस्याः पादे प्रथमे, द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये, चतुर्थके पञ्चदश साऽऽर्या ॥१॥
आर्यायाः लक्षणमुदाहरणं चेदमेव-पार्यायाः पथ्या, चपला, विपुला, मुखचपला, जघनचपला, गीति, उपगीत्यादयोऽनेकाः भेदाः छन्दशास्त्रतो ज्ञेया विशेषार्थिना । तेषु गीतिछन्दसोऽतिप्रसिद्धत्वात् तल्लक्षणमुच्यते ।
'आर्या प्रथमाधसमं, यस्या अपरार्धमाह तां गीतमिति ।' तस्योदाहरणं यथाअजिअं जिन-सव्वभयं, संति च परांत-सव्व-गय-पावं । जयगुरु संति गुणकरे, दोवि जिणवरे पणिवयामि ॥१॥गाहा।
[श्रीप्रजित-शान्तिस्तवने प्रोक्तमिति] अक्षरच्छन्दःसु प्रथममष्टाक्षरमनुष्टुप् छन्दः । तल्लक्षणं यथा
पञ्चमं लघु सर्वत्र, सप्तमं द्वि-चतुर्थयोः ।
गुरुषष्ठं विजानीयाच्छेषेष्वनियमो मतः ॥१॥ तस्योदाहरणं यथा
नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः । वीतरागसमो देवो, न भूतो न भविष्यति ॥
साहित्यरत्नमञ्जूषा-२७ ।