SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ यस्तु सर्वदा शब्दशास्त्रमात्रोद्घोषरणादिना, तथाभूतादिहेतुहेत्वाभासादिरूपतर्कशास्त्रसमध्ययनेन वा विनष्टकवनशक्तिः साहित्यनिन्दा श्रवणेन चाऽपि विप्रलब्धः, सोऽत्रासाध्यत्वेनानधिकारी ज्ञेयाः ॥ * प्रथमपरिच्छेदस्य सारांश: कोमले काव्यसंसारे, कवित्वं कीदृशं मतम् । सुशीलसूरिणा प्रोक्तं, रम्यं संस्कृतभाषया ॥ १ ॥ कवित्वं दुर्लभं लोके, तत्रापि तत्रापि रससिद्धता । रससिद्धकवीनाञ्च भेदा: शास्त्रेषु दर्शिताः ॥ २ ॥ सिद्धसारस्वतः कश्चिद्, जन्मसंस्कारतोऽपि वा । यत्नाल्लभ्या च शक्तिः स्यात्, काव्यकोशपुरस्सरा ॥ ३ ॥ यत्नलभ्या च या शक्ति-स्तत्र सन्त्यधिकारिणः । अल्पकृच्छौ च बोधन्यौ, पुनः कृच्छतरो मतः ॥ ४ ॥ कृच्छतरात् कृच्छः श्रेष्ठः एवं विद्यात् समासेन, कृच्छाच्चाल्पबोध्यकः । कवित्वप्राप्ति सूचना ।। ५ ।। सरलैस्सरसैः शब्दः - रथैर्भावैश्व सङ्गतः । प्रथमोऽयं परिच्छेदो, मया प्रीत्या प्रपूरितम् ॥ ६ ॥ साहित्यरत्नमञ्जूषा-१४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy