________________
मञ्जुला
यश्चन्द्रप्रभ: (चन्द्र इव प्रभावान्) स सुविधि: (शोभनो विधिर्यस्य स) तनुमनउज्ज्वलस्य दुर्विधित्वविरहादित्यमुना सम्बन्धेनागतस्य श्रीसुविधिनाथजिनस्य स्तुति: कथ्यते । ___ ददमिति ।
द ! • दः = बाल: → द: स्मृत: बन्धे च बन्धने बोधे बाले - [६८] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, तस्य सम्बोधने, हे द ! त्वं सुविधिम् = श्रीसुविधितीर्थेशम् सदा = अहर्निशम् सेवस्व = भज इति क्रियाकारकयोग: → षेवृङ् सेवने - [८१८] इति हैमधातुपाठः।
कीदृश हे द ! ? द ! • द: = दीन: → दीने दन्दशूकेऽपि द: स्मृत: 6 [६८] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, धर्मधनरहितत्वात्, तस्य सम्बोधने, पुन: कीदृश हे द ! ? द ! द: = मूढ: → दं क्लीबे दानवैराग्यकलत्रेष्ववलोकने भेद्यलिङ्गस्त्वयं मूढे + [४८/४९] इत्येकाक्षरकाण्डः कविराघवविरचितः, कार्याकार्याज्ञत्वात्, तस्य सम्बोधने ।
अत्र ‘सेवस्व' इति क्रियापदम्, क: कर्ता ? 'त्वम्' अध्याहृतं पदम्, कं कर्मतापन्नम् ? ‘सुविधिम्', किं सम्बोधनम् ? 'द', 'द ! द !' तस्य विशेषणे, अन्यानि सर्वाणि श्रीसुविधिनाथस्य विशेषणानि ।
कीदृशं श्रीसुविधिम् ? ददम् + द: = भाव: → भवति दकारो दाने भावे - [३२] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातकृता, दः = शुद्धिः → द: शुद्धौ [१८-१] इति विश्वलोचनकोश: श्रीधरसेनाचार्यनिर्मित:, दस्य दो यस्य यस्माद्वा स दद: = भावविशुद्धिकारक: शुक्लध्यानवत्त्वात् सर्वजीवहितकाक्षित्वाच्च, तम् ।
[दः] श्रीसुविधिजिनस्तुतिः
६७