________________
एकाक्षरीनाममालाऽज्ञातप्रणीता, थ इव था यस्य स थथः = गिरिवच्छब्दवान् जिनवरस्य शब्दा: पवर्तवन्निश्चलाः इत्याशयस्तदवदाम वयं सौम्यवदनाख्यकाव्यस्य पुण्यवल्लभाभिधानायां स्वोपज्ञवृत्तौ तीर्थकृतो वाच्यचापल्यमेव सर्वज्ञत्वाद् ← [ श्लो. - १४, पृ. ७३ ] जिनवचसां सर्वथा सत्यपरिपूर्णत्वान्न यथातथमिति, तम् । पुनः कीदृशम् ? थथम् थ: = चन्द्रः थः पुंस्यूर्मिगिरीन्दुषु ← [४०] नानार्थरत्नमालेरुगपदण्डाधिनाथनिर्मिता, था = प्रभा था धरित्री प्रभा ← [ ६०] इत्येकाक्षरनाममाला सौभरिरचिता, थ इव था यस्य स थथः = चन्द्रप्रभः परमसौम्यत्वात्, तम् ।
पुनः कीदृशम् ? थम् • थः = वरदः → वरदः कृष्णो वामजानुगतः स्मरः शौरी चापि विशालाक्ष: थकारः परिकीर्तितः ← [३५] इत्येकाक्षरीमातृका - कोषोऽज्ञातरचितः, प्रकृष्टप्रदातृत्वात्, तम् ।
पुनः कीदृशम् ? थम् थः = भयरक्षक: थः पुंसि क्वचिद् भयरक्षके ← [२५६० ] इति वाङ्मयार्णवो रामावतारशर्मनिर्मितः, अभयदानकर्तृत्वात् तम् ।
लखनौनगरे नत्वा प्रभुं चन्द्रप्रभं जिनम् च्यवनाभिधकल्याणपर्वणि तज्जिनेशितुः फाल्गुनकृष्णपञ्चम्यां विधाय केशलुञ्चनम् पूर्णीकृता थकारेण स्तुतिश्चन्द्रप्रभार्हतः
इति श्रीचन्द्रप्रभस्वामिस्तुतिः ।। १० ।।
[थ: ] श्रीचन्द्रप्रभस्वामिस्तुतिः
1
।।१।।
1
||२|| युग्मम् ॥
६५