SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ← [२०] इति पूर्वोक्तैकाक्षरीनाममालावचनाद्, तवत् तो यस्य स ततः = जलवन्निर्मलमना: कर्मकालुष्यशून्यत्वात्, तम् । पुनः कीदृशम् ? ततम् • त: = म्लेच्छ: निम्नजातिमान् →तश्चौरामृतपुच्छेषु क्रोडे म्लेच्छे च कुत्रचित् ← [ १६ - १ ] इति मेदिनीकोशो मेदिनीकररचित:, ता = कृपा → ता कृपायां स्त्रियां मता ← [ ६४ ] इत्येकाक्षरशब्दमालाऽमात्यमाधवप्रणीता, ते ता यस्य स ततः = हीनजातावपि कृपावान् ममत्वरहितत्वात् समत्वसहितत्वाच्च, तम्, तुहीनदीधितिर्यथा निष्पक्षपाततया पृथ्वीपतिप्रासादे निःस्वनिशान्ते च ज्योत्स्नां वर्षयति तथैवार्हन्नपि समदृष्ट्यैव कुलीने कुलहीने च स्वकृपावर्षर्णं कुरुत इति तात्पर्यम् । पुन: कीदृशम् ? तम् ৺- त: = महाबुद्धः प्रप्रबुद्ध इत्यर्थः → महाबुद्धे तु तः प्रोक्तः ← [ १६ - १] इति शब्दरत्नसमन्वयः शाहराजमहाराजविरचित:, सर्वज्ञत्वात्, तम्, प्रबुद्धः - विद्वानित्यर्थ: श्रीजिनवरस्तु विदुषामपि विद्वानतः प्रप्रबुद्ध इति प्रोक्तम् । पुनः कीदृशम् ? तम् ← तः = पालकः → पालके तः स्यात् ← [११] इति विश्वलोचनकोश: श्रीधरसेनाचार्यनिर्मितः, सर्वजीवपातृत्वात् तम् । फाल्गुन शुभ्रषष्ठ्यां हि तकारेण प्ररूपिता स्तुतिः सुपार्श्वनाथस्य श्रीफरीदपुरे पुरे इति श्रीसुपार्श्वनाथजिनस्तुतिः ॥ ९ ॥ तः ] श्रीसुपार्श्वनाथजिनस्तुतिः ★★ 1 ।।१।। ५९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy