________________
मालाडमात्यमाधवविहिता, जः = मत्सर: → जो जवे विषमे मेरौ स्वर्गे पातरि मत्सरे - [५८] इत्येकाक्षरीनाममाला कालिदासव्यासप्रोक्ता, ज: छेदक: → जश्चारे छेदके - [१७] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनकथितः, जानां जा इति जजास्तेषां ज इति जजजस्तस्य ज इति जजजज: = जैनवैरिवरच्छेदक:, तम् ।
न केवलं परवैरच्छेदक: किन्तु स्वयमपि च तद्रहितस्तदाह ।
पुन: कीदृशम् ? जजम् ज: = विगत: → जश्च जेतरि जनने विगते 6 [१८] इत्येकाक्षरनाममाला सुधाकलशमुनिकथिता, ज: = मत्सर: → जो जवे विषये मेरौ शब्दे जेतरि मत्सरे * [२६] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथविरचित:, जो जो यस्मात् स जज: = विगतविद्वेष: निष्कषायत्वात्, तम् ।
पुन: कीदृशम् ? जम् - ज: = जेता → जेता जश्च समाख्यात: सूरिभिः शब्दशासने - [१३] इत्येकाक्षरकोश: पण्डितमनोहरप्रणीतः, जेतृत्वञ्चार्हतो वेधा विज्ञेयं सर्वक्षितिपतिस्वामित्वाद् बाह्यत्वेन प्रथममपरञ्च क्षीणकामक्रोधमोहादिरिपुत्वादाभ्यन्तरत्वेनेति, तम् ।
पुन: कीदृशम् ? जजजजम् + जः = चतुरानन: → चतुरानन:, मणिबन्धगतो वामे जकार: * [२६] इत्येकाक्षरीमातृकाकोशोऽज्ञातकृतः, जम् = जलम् → जं कटीभूषणे पत्न्यां तेजस्यम्बुनि - [२७] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथनिर्मित:, ज: = जननम् → जनने ज: प्रकीर्तित: 6 [१७] इत्येकाक्षरनाममाला वररुचिरचिता, ज: = प्रद्योतन: सूर्य इत्यर्थः → जो जेतृरविपद्मजे - [९] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातकृता, जे = जले ज: = जननम् यस्य तत् जजम् = जलजम् पङ्कजमित्यर्थः, ज एव जजमिति जजजम् = चतुराननपङ्कजम् तस्य प्रबोधने ज इव य इति जजजज: = चतुराननपङ्कजप्रद्योतन:, तम् ।
पुन: कीदृशम् ? जजम् = जा: = जीवा: → जोऽथ केशवजीवयोः * [१७] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनप्रोक्तः, ज: = पाता रक्षक इत्यर्थः → जो जवे विषमे मेरौ स्वर्गे पातरि + [५८] इति पूर्वोक्तकालिदासव्यासवचनाद्, जानां ज इति जज: = जीवरक्षक: अधर्मादेरिति शेष: [ज:] श्रीपद्मप्रभस्वामिस्तुति: