SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ मालाडमात्यमाधवकृता, चस्य च इति चच: = शशिशोचि: तद्वद् चं यस्य स चचच: = शशिशोचि:शोणित: आर्हतातिशयात्, तम् । पुन: कीदृशम् ? चचचम् - च: = सूरि: प्रबुद्ध इत्यर्थः → च: सूरौ . [१५] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनविरचितः, च: = चकोर: → चस्तुरुष्के स्वरे चौरे चकोरे - [२४] इति नानार्थ रत्नमालेरुगपदण्डाधिनाथकथिता, च: = चन्द्रः → चस्तु तस्करचन्द्रयोः - [५] इति विश्वलोचनकोश: श्रीधरसेनाचार्यनिर्मित:, चा एव चा इति चचा: = चतुरचकोरा: तत्र-तदानन्ददाने च इव य इति चचच: = चतुरचकोरचन्द्र: विद्वद्वरेण्यत्वात् सर्वदर्शित्वाच्च, चन्द्रदर्शनात् स्याद्यथा चकोराणां चित्तप्रसन्नता तथैव प्रभुदर्शनादपि प्रबुद्धानामित्याशय:, तम् । ___ पुन: कीदृशम् ? चम् + च: = ईश्वर: → चस्तुलुष्केश्वरे - [२९] इत्येकाक्षरकाण्ड: कविराघवकृतः, अनन्तैश्वर्योपभोक्तृत्वात्, तम् । पुन: कीदृशम् ? चचचचम् - चम् = सुखम् → चं चरित्रं सुखम् . [३६] इत्येकाक्षरशब्दमाला सौभरिविहिता, च: = शाखी वृक्ष इत्यर्थ: → चस्तरौ - [१४] इत्येकाक्षरनाममाला सुधाकलशमुनिनिर्मिता, च: = सविता सूर्य इत्यर्थः → चश्चन्द्रमा: समाख्यातस्तरणिश्चापि कीर्तित: 6 [६] इति शब्दरत्नसमन्वय: शाहराजमहाराजकृत:, च: = शुचि: किरण इत्यर्थ: → चश्चञ्चुश्चारणोऽर्चि: 6 [३३] इत्येकाक्षरनाममाला सौभरिरचिता, चमेव च इति चच: = सुखशाखी चस्य च इति चच: = सवितृशुचि: चचे = सुखशाखिनो विस्तृतीकरणे चच: = सवितृशुचि: इव य इति चचचच: = सुखशाखिसवितृशुचि:, तम्, यथान्तरेणार्कप्रकाशान्न द्रुमस्याभिवर्धनं तथैव सुखस्यापि विना जिनवरान्नहीत्याशयस्तदवोचाम वयं जिनराजस्तोत्रस्य स्वोपज़राजहंसाभिधानायां वृत्तौ → अर्हता विना न सुखोत्पत्ति: * [श्लो. २४, पृ.-१४३] । पुन: कीदृशम् ? चचम् च: = विमल: निर्मल इत्यर्थः → चं क्लीबे विमले त्रिषु - [२९] इत्येकाक्षरकाण्ड: कविराघवकृतः, च: = चेतन: → च: पुंसि चेतने [३१] इत्येकाक्षरनाममालिका विश्वशम्भुविहिता, स्यात् चश्चो यस्मात् स चच: = आत्मनैर्मल्यकृत् कर्ममालिन्यापनेतृत्वात्, तम् । पुन: कीदृशम् ? चचम् - च: = चन्द्रः → च: पुंलिङ्गे निशानाथे . [च:] श्रीसुमतिनाथजिनस्तुति: ४५
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy