SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ मञ्जुला य: सर्वासुमतां शंभव: (सुखस्य जनक:) स सर्वदेहिनामभिनन्दनो भवत्येव सुखानुभूतेरानन्दानुभूतिजत्वादिति सम्बन्धेनायातस्य श्रीअभिनन्दनस्वामिनः स्तुतिरुद्यते । घघघमिति । घघ ! - घम् = पापम् → घं पापमुच्यते - [३०] इत्येकाक्षरनाममाला सौभरिरचिता, घा = आर्तिः पीडेत्यर्थः → घा चार्ति: किङ्किणी च स्यात् । [४०] इत्येकाक्षरशब्दमालाडमात्यमाधवकृता, घस्य घा यस्य स घघ: तस्य सम्बोधने घघ ! = पापपीडावन् हे मनुष्य ! त्वम् अभिनन्दनम् = श्रीअभिनन्दनस्वामिनं चतुर्थजिनेश्वरं वन्दस्व = प्रणम → वदुङ् स्तुत्यभिवादनयो: * [२६३] इति कविकल्पद्रुम: श्रीहर्षकुशलगणिप्रणीतः, इति क्रियाकारकसण्टङ्कः । अत्र 'वन्दस्व' इति क्रियापदम्, क: कर्ता ? 'त्वम्', कं कर्मतापन्नम् ? 'अभिनन्दनम्', किं सम्बोधनम् ? 'घघ', इतराणि श्रीअभिनन्दनजिनेश्वरस्य विशेषणानि । कीदृशं श्रीअभिनन्दनजिनम् ? घघघम् • घम् = पुण्यम् → पुण्ये प्रवाहे पाषण्डे घम् - [२९] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, घम् = अमृतम् → घं वाद्यामृतयो: - [२३] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथरचितः, घ: = अम्बुधि: → घो वाद्याम्बुधराम्बुधौ - [८] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातप्रणीता, घमेव घमिति घघम् तस्य घ इति घघघ: = पुण्यपीयूषपारावार: पुष्कलपुण्यवत्त्वात्, तम् । वैयर्थ्यमेव पुष्कलपुण्यानामपि पापमिश्रितत्वेनातो जगत्प्रभोः पापपावक[घ:] श्रीअभिनन्दनस्वामिस्तुति: ३७
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy