SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ मनोरमा अथ कुकारेणार्हत्स्तुति: कथ्यते । कुकुकुकुकुकुमिति । कुं न: ! • कुं सम्बोधने → कुं घटे कुङ्कुमे पाके सम्बोधने - [४३] इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, ना = नर: स्पष्टमेव तस्य सम्बोधने, कुं न: ! = हे नर ! त्वमर्हन्तम् = त्वं श्रीसार्वपरमात्मानम् भजस्व = सेवस्व → भजी सेवायाम् - [८९५] इति हैमधातुपाठः, इति क्रियाकारकान्वयः । हे न: ! कीदृशस्त्वम् ? कुकुः - कुः = कोप: कुः = शिखी अग्निरित्यर्थः → कुशब्द:..... कोपे शिखिन्यपि - [२८/२९] इत्येकाक्षरशब्दमालाऽमात्यमाधवरचिता, कुरेव कुर्यस्य स कुकुः = कोपकृशानुः कोपाग्निदग्ध इत्यर्थः अतीव-क्रोधित्वात् । पुन: कीदृश: ? कुकुः • कु = निन्दा → कु निन्दायाम् + [२] इत्येकाक्षरीनानार्थकाण्ड: श्रीधरसेनाचार्यनिर्मित:, कुः = शब्द: → कुस्तु भूमौ शब्दे च - [४] इत्येकाक्षरनाममालिका श्रीअमरचन्द्रकविविहिता, कु = निन्दाया: कव: = शब्दा: यस्य स कुकुः = निन्दाशब्दवान् सर्वेषां निन्दाकृदित्यर्थः । अत्र 'भजस्व' इति क्रियापदम्, कः कर्ता ? 'त्वम्', कं कर्मतापन्नम् ? 'अर्हन्तम्', किं सम्बोधनम् ? 'कुं न: !', 'कुकुः' 'कुकु:' कर्तुर्विशेषणे, अपराण्यखिलानि कर्मणो विशेषणानि । कीदृशं श्रीअर्हन्तम् ? कुकुकुकुकुकुम् - कुः = पृथ्वी → पृथिव्यां कुः समाख्यात: 6 [८] इत्येकाक्षरनाममाला वररुचिकृता, कुः = पापीयान् अतीवपापी-त्यर्थः → कुः पापीयसि 6 [१०] इत्येकाक्षरीयप्रथमकाण्ड: [कु:] अर्हत्स्तुतिः
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy