________________
ठा एव ठाव इति ठठावस्तत्र लैरिव य: स ठठौठैः = महीपतारातपन: ।
ठः = सर्वमित्रक: → ठः शून्यम्....सर्वमित्रकः [९४] इति प्रकारान्तरमन्त्राभिधानम्, सुविशालहत्त्वादजातशत्रुत्वाच्च ।
ठठौठैश्चासौ ठश्चेति ठठौठै-ठ: = महीपतारातपन-सर्वजीवमित्रम्, तस्य सम्बोधने ।
पुनः कीदृश !? अठो ! • तुः = धनम् → ठुकार: कथ्यते... धने - [५८] इत्येकाक्षरशब्दमालाऽमात्यमाधवभणिता, नास्ति तुर्यस्य स अतुः = धनरहित: निष्परिग्रहित्वात्, तस्य सम्बोधने ।
पुनः कीदृश !? अठूठो ! • ठू: = धृति: → ठू: प्रज्ञा धृतिरेव च . [४९] इत्येकाक्षरनाममाला सौभरिप्रोक्ता, तुः = क्षय: → ठुकार: कथ्यते... क्षये - [५८] इत्येकाक्षरशब्दमालाऽमात्यमाधवप्ररूपिता, न टूरित्यठूरधैर्यमित्यर्थस्तस्य तुर्यस्मात् स अतूटुः = अधैर्यक्षायकः, तस्य सम्बोधने ।
पुन: कीदृश ! ? ठुठुठो ! - ठुः = वञ्चक: → वञ्चके वेषकारे तु: 6 [४९] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, तुः = विषय: → ठुकार: कथ्यते पुंसि विषये - [५८] इत्येकाक्षरशब्दमालाऽमात्यमाधवरचिता, तुः = विजय: → विजये देवसेवने तुः + [४७] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, ठुश्चासौ तुश्चेति तुतुः सर्वेषां प्रति शाठ्यकृत्त्वाद्विषयस्य वञ्चकत्वमुक्तम्, तस्य तुर्यस्य स ठुठुतुः = वञ्चकविषयविजेता निर्विकारित्वात्, अथवा मध्यम तुकारस्य अन्योऽर्थः, तुः = यम: → तुः कदम्बो यम: * [४९] इत्येकाक्षरनाममाला सौभरिविहिता, तथैव ठुठुतुः = वञ्चकयमविजेता विषयवद् यमोऽपि सर्वान् प्रति वञ्चनां विदधात्यतोऽत्रापि वञ्चकत्वम्, तस्य सम्बोधने ।
पुन: कीदृश ! ? अठ ! - ठ: = आधि: → ठो महेशे महामन्त्रे मन्त्रिभूपाधि- 6 [४५/४६] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, न विद्यते ठो यस्य स अठ: = आधिरहित: परमानन्दनिमग्नत्वात्, तस्य सम्बोधने, अथवा ठम् = विवरम् दूषणमित्यर्थः → ठं ज्ञानं विवरम् - [५०] इत्येकाक्षरनाममाला सौभरिग्रथिता, नास्ति ठं यस्य स अठ: विविवर: निर्दूषण इत्यर्थः सर्वगुणसंपन्नत्वात्, तस्य सम्बोधने, अथवा ठः = परिताप: → ठः शब्द: स्याद् भवने [ठ:] अर्हत्स्तुति: