SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ मनोरमा अथ ठकारेणार्हत्स्तुतिः कथ्यते । ठठे -ऽठठेति । हे अर्हन् = हे जिनेश्वरपरमात्मन् ! त्वम् विजयस्व = त्वं जेता भव इति क्रियाकारकसण्टङ्कः । अत्र ‘विजयस्व’ इति क्रियापदम्, कः कर्ता ? 'त्वम्’, किं सम्बोधनम् ? ‘हेऽर्हन्’, ‘ठठे ! अठठ ! ठठौठै-ठ ! अठो ! अठूठो ! ठुठुठो ! अठ' इति सम्बोधनस्य विशेषणान्यन्यानि सर्वाण्यपि कर्तुर्विशेषणानि । कीदृश श्रीअर्हन् !? ठठे ! ठः = भूपः राजेत्यर्थः ठो महेशे महामन्त्रे मन्त्रि - भूप- ← [ ४५] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, ठि: = कुमारः → ठिः कुमारः ← [ ४९ ] इत्येकाक्षरनाममाला विश्वशम्भुरचिता, ठस्य ठिरिति ठठिः = राजकुमारः, तस्य सम्बोधने । पुनः कीदृश ! ? अठठ ! ठः = हासः ठः = त्रासः ठः पुमान् वृषभे शून्ये हा त्रासे ← [ ६७ ] इत्येकाक्षरीनाममाला कालिदासव्यासनिर्मिता, ठश्च ठश्चेति ठठौ, न विद्येते ठठौ यस्य स अठठः = हासत्रासरहितः मोहनीयवेदनीयशून्यत्वात्, तस्य सम्बोधने । पुनः कीदृश ! ? ठठौठै-ठ ! । ठठौठैः • ठः = महीपः ठशब्द: कथ्यते पुंसि बृहद्ध्वानमहीपयोः ← [ ५६ ] इत्येकाक्षरशब्दमालाऽमात्यमाधवविहिता, ठौः = तारा तारासु ठौ ? ठौः स्त्रियाम् ← [४८] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, ठैः = सूर्य: ठैरदैन्तो ? वृथाहास्ये सूर्ये ← [ ४८ ] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, [ठः] अर्हत्स्तुतिः ४९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy