________________
मनोरमा
अथ झकारेणार्हत्स्तुतिरभिधीयते ।
झझझझझझेति ।
अर्हदीश्वरः = श्रीवीतरागपरमात्मा जयतात् = विजयताम् → जिं अभिभवे ← [८] इति है मधातुपाठः ।
अत्र 'जयतात्' इति क्रियापदम् कः कर्ता ? 'अर्हदीश्वर:', अन्यानि कर्तुर्विशेषणानि ।
कीदृश: श्रीअर्हन् ? झझः झः = नष्टः झो नष्टे ← [२०] इत्येकाक्षरकाण्डः महीपसचिवप्रणीतः, झः = दर्प निगदित: ? (तो) झकार: पद्मासने च दर्पे ← [२४] इत्यजिरादि - एकाक्षरीनाममालाऽज्ञातरचिता, झोझो यस्मात् स झझ: = गतगर्व: मृतमद इत्यर्थ: निष्कषायत्वाद्, अथवा झम् = भुवनम् → भुवने झम् ← [ ३९ ] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, झः = रविः झो वावपि निर्दिष्टः ← [१०] इत्येकाक्षरकोषो महाक्षपणकविहितः, झे झ इव यः स झझः = भुवनभास्करः मिथ्यामततमोऽस्तकृत्त्वात् ।
मिथ्यामतनिवारकप्रभुपङ्कजेऽलीभूयायान्त्यमरावत्यादितेयास्तदाह ।
P
पुनः कीदृश: ? झौझूझझा-झूझः । झौझूझझम् झौ: = नाक: स्वर्ग इत्यर्थः झौः स्मृतो नाक: ← [४२] इत्येकाक्षरनाममाला सौभरिकृता, झूः = अमर: बहुत्वेऽमराः → झूश्च ध्रुवः सङ्घोऽमरः ← [४१] इत्येकाक्षरनाममाला सौभरिग्रथिता, झः = भ्रमरः → झशब्दस्तु पुमान् धातरि हंसके प्रतापे भ्रमरे ← [ २८/२९] इत्येकाक्षर[झ: ] अर्हत्स्तुतिः
२७