________________
मनोरमा
अथ छकारेणार्हत्स्तुति: समुद्यते । छाछाछा-ऽऽछमिति ।
हे छे ! • छिः = कुलालक: कुलालविशेष: → छि: कुलालक: 6 [३६] इत्येकाक्षरनाममाला सौभरिप्रणीता, तस्य सम्बोधने, त्वमर्हन्तम् = त्वं श्रीतीर्थकृत्परमात्मानम् संस्तुष्य = संस्तवनविषयीकुरुष्व इति क्रियाकारकयोग: ।
कीदृश हे छे ! ? - छ ! छ: = स्वच्छ: → छ: सूर्ये सोमनैर्मल्ये छेदे स्वच्छे । [३३] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, प्रभुभक्तस्य तथात्वात्, तस्य संबोधने ।
अत्र ‘संस्तुष्व' इति क्रियापदम्, क: कर्ता ? 'त्वम्', कं कर्मतापन्नम् ? 'अर्हन्तम्', किं सम्बोधनम् ? 'छे!', 'छ!' तस्य विशेषणमन्यानि कर्मणो विशेषणानि ।
अथ कीदृशं श्रीअर्हन्तम् ? छाछाछा-ऽऽछम् ।
छाछाछ: ७ छा = रुट रोष इत्यर्थः → छा च रुट - [३६] इत्येकाक्षरनाममाला सौभरिनिर्मिता, छा = गिरिः → छा...गिरौ - [३३] इत्येकाक्षरनाममालिका विश्वशम्भुविहिता, छ: = भेदक: → छ इति ... भेदकेऽपि च . [३०/३१] इत्येकाक्षरकाण्ड: कविराघवकृत:, छैव छेति छाछा तस्य छ इति छाछाछ: = रोषगिरिभेदकः क्षमासिन्धुत्वान्निष्क्रोधत्वाच्च, भूधरवद् रोषस्य भेदने बह्वल्पा एव क्षमाऽतस्तेन सहोपमा।
___ आछ: - आ: = अनन्त: → अनन्तः... दीर्घ आकार एव च . [४] इत्येकाक्षरीमातृकाकोशोऽज्ञातग्रथित:, छ: = श्रुतम् ज्ञानमित्यर्थः → छः पुंसि... श्रुते . [४६/४७] इत्येकाक्षरशब्दमालाडमात्यमाधवगुम्फिता, आ: छो यस्य स
[छ:] अर्हत्स्तुतिः
१९