SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ हे छ ! - छ: = चौरः → छ: सूर्ये छेदके चौरे ← [ ५६ ] इत्येकाक्षरीनाममाला सौभरिगुम्फिता, तस्य सम्बोधने, त्वम् नभम् = जिनवरम् • नः = जिन: सर्वज्ञ इत्यर्थ: → नकारो जिनपूज्ययो: ← [१३] इत्येकाक्षरीनानार्थकाण्डः श्रीधरसेनाचार्यप्रोक्तः, भम् = श्रेष्ठम्भकारं भार्गवम्... श्रेष्ठम् ← [३९] इत्येकाक्षरनाममालाऽज्ञातप्ररूपिता, नेषु भमिति नभम् = जिनवर:, तद्, वह = प्राप्नुहि वहतीत्येतत् स्यन्दने प्रापणे ← [नानार्थवर्ग: ९४ ] इत्याख्यातचन्द्रिका भट्टमल्लप्रणीता । कीदृश हे छ ! ? रष ! रः = अग्निः रः सूर्येऽग्नौ ← [ १०१ ] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, षः = अतिरोष: षोऽतिरोषे ← [ १०९ ] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, रवत् षो यस्य स रषः = अग्निवदतिरोषः तस्य सम्बोधने | - फलितार्थः, हे छ ! ' रष' विशेषणविशिष्ट ! त्वं नभं 'कड - झडा'दिविशेषणैर्विशिष्टं वहेति स्वतन्त्रमपीदं श्रीजिनवरसामान्यस्तवनमवगन्तव्यम्, श्रीकलिकुण्डपाश्वप्रभोस्तु स्पष्टमेव । इति मङ्गलाचरणम् ।। १-२ ।। मङ्गलाचरणम् ११
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy