________________
मनोरमा
अथेह ग्रन्थादौ मङ्गलमाह। कडं झडमिति ।
हे कलिकुण्डप्रभो ! = हे श्रीकलिकुण्डतीर्थस्याधीश्वरपार्श्वप्रभो ! त्वां तथा राजेन्द्रगुरुम् = कलिकुण्डतीर्थोद्धारकाचार्यविजयश्रीराजेन्द्रसूरीश्वरम् नत्वा = अभिवन्द्य मदे = प्रत्यक्षत: स्ववार्तमानिकप्रमोदाय परोक्षतश्च महानन्दानन्दावाप्तये अवशिष्टाक्षरैः = श्रीजिनराजस्तोत्र-श्रीजिनेन्द्रस्तोत्रशेषवर्णै: अर्हत्स्तोत्रम् = श्रीअर्हत्परमात्मन: स्तोत्रम् प्रक्रियते = प्रारभ्यते इति क्रियाकारकसंयुतम् ।
अत्रानुस्वाररहितानि 'कलिकुण्डप्रभो !' इत्यस्य विशेषणानि, तथा सानुस्वाराण्यखिलान्यपि ‘त्वाम्' इत्यस्य विशेषणानि ।
कीदृश हे कलिकुण्डप्रभो !? रष ! • र: = गुरु: → र: स्यात् पुमान् शिवे वह्नौ वजे कामे रवौ गुरौ - [९७] इत्येकाक्षरशब्दमालाऽमात्यमाधवप्रणीता, ष: = इष्ट: → ष: पुन: सारसे इष्टे - [१३५] इत्येकाक्षरीनाममाला कालिदासव्यासरचिता, राणां ष इति रष: = गुरुणामभीष्ट: जगद्गुरुत्वात्, तस्य सम्बोधने ।
पुन: कीदृश ? छ! - छ: = स्वच्छ: → छ: सूर्ये सोमनैर्मल्ये छेदे स्वच्छे [३३] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, मनोमालिन्यरहितत्वात्, तस्य सम्बोधने ।
पुन: कीदृश ? वह ! 7 व: = श्रेष्ठ: → श्रेष्ठे विकारे व: प्रकीर्तित: 6 [३२] इत्यभिधानादि-एकाक्षरीनाममालाऽज्ञातविहिता, हम् = सुखम् → हं क्लीबमस्त्रसुखयो: “ [८१] इत्येकाक्षरकाण्ड: कविराघवकृत:, वो हं यस्य स वह: = श्रेष्ठसुख: परमानन्दनीरधिनिमग्नत्वात्तदक्षयत्वाच्च, तस्य सम्बोधने ।
अथ श्रेष्ठसुखस्य दुःखशून्यत्वं स्पष्टमेव, तदाह ।
अथ कीदृशं त्वाम् ? कडम् - कम् = दुःखम् → कं सुखं तोयं पयो दुःखम् - [२०] इत्येकाक्षरनाममाला सौभरिग्रथिता, ङः = शून्य: → ङ: शून्ये * [३०] इत्येकाक्षरनाममालिका विश्वशम्भुगुम्फिता, केन ङइति कङ = दु:खशून्य: दु:खरहित इत्यर्थः, दुष्कर्मरहितत्वात्, तम् । मङ्गलाचरणम्