________________
रवौ
कामे खौ गुरौ ← [१७] इति पूर्वोक्तामात्यमाधववचनाद्, धर्मोपदेशकत्वाद् अज्ञानतिमिरनिवारकत्वाच्च, तम् ।
पुनः कीदृशम् ? रम् रः = ईश्वरः रश्च प्रकीर्तितः, ईश्वरे ← [२६/२७] इत्येकाक्षरकोषो महाक्षपणकग्रथितः, परमैश्वर्योपभोजित्वात्, तम् ।
चतुर्थ्यां रामचैत्रस्य श्रीकञ्चनपुरे पुरे ।
स्तुति: श्रीअरनाथस्य रकारेण प्ररूपिता ।। १ ।।
इति श्रीअरनाथजिनस्तुतिः ।। २० ।।
[र] श्रीअरनाथजिनस्तुतिः
★★
१३१