SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ पुनः कीदृशम् ? बबबबम् - ब: = पुरुष: मानव इत्यर्थः → ब: पुमान् पुरुषे - [८५] इत्येकाक्षरनाममालाडमात्यमाधवनिर्मिता, बः = कलह: → कलहे ब उदाहृत: - [३२] इत्येकाक्षरनाममाला वररुचिविरचिता, ब: = अम्बुभृद् ब: = वायुः → बोऽम्बुभृद्वायुकुम्भेषु [१३] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातप्रणीता, बानां ब इति बब: स एव ब इति बबबस्तदूरीकरणे ब इव य: स बबबब: = मानवमृधमेघमरुद् अतिशयविशेषान्यायनिष्ठत्वाच्च, तम् । पुनः कीदृशम् ? बम् - ब: = वर: → बो दन्त्यौष्ठ्यस्तथौंष्ठ्योऽपि वरुणे वारुणे बरे - [८७] इति पूर्वोक्तविश्वशम्भुवचनात्, श्रेष्ठतमत्वात्, उपमाऽनुपमेयत्वात्, तम् । पुन: कीदृशम् ? बम् • बम् = रोगहरम् → बकारमश्विनीबीजं पीतं रोगहरम् - [३८] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, आर्हतातिशयात्, तद् । आरब्धा छतमीग्रामे स्वबृहद्विरतेर्दिने । चतुर्थ्यां सितचैत्रस्य बकारेण तिथौ मुदा ।।१।। पञ्चम्यां च समाप्तेयं कुछवाडे पुरे स्तुतिः । श्रीअनन्तार्हतस्तस्य मोक्षकल्याणकाहनि ।।२।। युग्मम् ।। इति श्रीअनन्तनाथजिनस्तुतिः ।। १६ ।। [बः] श्रीअनन्तनाथजिनस्तुति: १०१
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy