________________
मञ्जुला
यो वासुपूज्य: (देवै: मनसा पूजनीय:) स विमल एव समलस्यापूज्यत्वात् इत्यनेन सम्बन्धेनायातस्य श्रीविमलनाथजिनस्य स्तुतिर्वर्ण्यते ।
फफफमिति ।
हे फ ! • फ: = देव: → फोडपारदर्शने देवे - [८४] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, तस्य सम्बोधने, हे फ ! = भो देव ! त्वं विमलम् = श्रीविमलनाथस्वामिनं नुहि = स्तुहि, इति क्रियाकारकयोजना → णु स्तुतौ - [भा.१, पृ.८८-२६] इति माधवीयाधातुवृत्तिः ।
कीदश भोः फ ! ? फफ ! • फम् = चारु → फं फल्गु चारु वा स्मृतम् + [७२] इत्येकाक्षरनाममाला सौभरिरचिता, फ: = प्रासाद: → फकार: स्यात् प्रासादे - [८३] इत्येकाक्षरशब्दमालाऽमात्यमाधवग्रथिता, फं फो यस्य स फफः = कमनीयप्रासादवान्, तस्य सम्बोधने ।
अत्र ‘नुहि' इति क्रियापदम्, क: कर्ता ? 'त्वम्' अध्याहार्यमिदं पदम्, कं कर्मतापन्नम् ? 'विमलम्', किं सम्बोधनम् ? ‘फ !', 'फफ !' इति सम्बोधनपदस्य विशेषणम्, अन्यानि कर्मणो विशेषणानि |
कीदृशं श्रीविमलम् ? विमलम् - विमल: = निर्मल: विगतं पापमेव मलं यस्मात् स विमल: कर्मरजोरहितत्वात्, तम् ।
पुन: कीदृशम् ? फफफम् ७ फ: = कोप: → कोपेऽपि फ: समाख्यात: - [२२] इत्येकाक्षरकोश: पण्डितमनोहररचित:, फः = शिखी वह्निरित्यर्थः → शिखी रौद्री वामपार्श्वकृतालय: फटकार: प्रोच्यते सद्भिः फकार: 6 [४०] इत्येकाक्षरीमातृकाकोशोऽज्ञातनिर्मित:, फः = अनिल: → फ: कलानिलशाखिनि [फः] श्रीविमलनाथजिनस्तुतिः ९१ .