SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मजुला य: श्रेयांस: (सर्वेषां हितकरः) स वासुपूज्य: (वसूनां = देवविशेषाणां पूज्य: = अर्चनीय:) सर्वहितकृत: परमपूजनीयत्वादित्यनेन सम्बन्धेनागतस्य श्रीवासुपूज्यस्वामिन: स्तुतिरभिधीयते । वसुपूज्य एव वासुपूज्य: → प्रज्ञादिभ्योऽण् - [सि.है.-७-२-१६५] इत्यनेन ‘अण्’प्रत्यय: । पपप इति । हे वासुपूज्य ! = भोः श्रीवासुपूज्यस्वामिन् ! त्वं पम् = मार्गम् मोक्षमार्गमित्यर्थः दर्शय = आलोकय इति क्रियाकारकयोजना → पोऽम्भ: पाने च पातरि समीरमार्गयो: - [३०] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनप्रणीतः, इति क्रियाकारकसंयोजना, → दृशुं प्रेक्षणे [४९५] इति हैमधातुपाठः, ण्यन्तप्रयोगश्च । कीदृश हे श्रीवासुपूज्य ! ? प ! • पः = शूर: → शूरो दक्षपार्श्वश्च पार्थिव: पद्मेशो नान्तिम: फादि: पकारोऽपि प्रकीर्तित: - [३९] इत्येकाक्षरीमातृकाकोशोऽज्ञातनिर्मितः, तस्य सम्बोधने प्रयोग:, हे प ! इति । अत्र 'दर्शय' इति क्रियापदम्, क: कर्ता ? 'त्वम्', कं कर्मतापन्नम् ? 'पम्', किं सम्बोधनम् ? 'वासुपूज्य', 'प!' इति सम्बोधनपदस्य विशेषणमन्यानि सर्वाण्यपि कर्तुर्विशेषणानि । कीदृशस्त्वम् ? पपप: छ प: = शास्त्रम् → पकारस्तु भवेल्लग्ने पत्रे शास्त्रार्चयोरपि - [७९] इत्येकाक्षरशब्दमालाडमात्यमाधवनिर्मिता, प: = अमृतम् → प: शब्द: स्यादमृते - [३५] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातकृता, प: = पानम् → पो वायौ च तथा पाने - [१४] इति शब्दरत्नसमन्वय: शाहराज[प:] श्रीवासुपूज्यस्वामिस्तुति: ८५
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy