________________
प्रस्तावना
अतीव प्रमोदास्पदमेतद्यद् विशालविजयमूरिभिः प्रणीतः सुभाषितपद्यरत्नाकरनामा भागचतुरात्मको ग्रन्थो विद्वद्वृन्देभ्य उपहारीकृतः श्रीविजयधर्मसूरिजैन ग्रन्थमालया । अस्मिन् सुभाषितपद्यरत्नाकरे न केवलं धर्मस्य तानि तानि सुगूढानि दुर्गमानि दुरुपपादनीयानि तच्चानि पूर्वाचार्याणामेव सूक्तिभिर्विवेचितानि किं तु संसारस्थानि जीवितोपयुक्तानि बहुन्यपि वस्तून्यस्मिन्ग्रन्थे सुसमीचीनतया व्याख्यातानि दृश्यन्ते । अन्यच्च न केवलमेतद्ग्रन्थ प्रणयनकर्मणि निर्ग्रन्थप्रवचनभूताः सिद्धान्तग्रन्था अमीभिरालोडिताः, किं तु बहव आचारग्रन्थाः स्मृतिग्रन्थाश्व दृष्टिपथं नीता उद्घृतानि च सारभूतानि पद्यानि तत्सकाशात् । संस्कृतभाषायामनादिकालात् प्रवृत्तस्य प्रचण्डस्य ग्रन्थप्रवाहस्य मध्ये परिश्रमपूर्वकमवगाह्य बुद्धिदण्डेन ज्ञानराशेर्मन्थनं कृत्वा तत्रस्थानि रत्नानि च सुसंगृह्य सुविशालबुद्धिभिर्विशाल विजयैः संगृहीतोऽयं रत्नाकरो विजयधर्मसूरीश्वरचरणयोरर्पितः सुफलतामुपगतः । स्थितेष्वपि बहुषु शतकत्रय - वज्जालग- सुभाषितरत्नसन्दोह -- सुभाषितरत्नभाण्डागार - सूक्तिमुक्तावलि ज्ञानसारादिषु ग्रन्थेषु विशालविजयैः कृतोऽयं सुभाषितपरत्नाकरो विवेचितानां विषयाणां विशदतया विवेचनादतीव महापदं विदुषां मनसि विदधीत । शिष्यशासितॄणां महान्तमुपकारभारं संपाद्य न चिरादेवासौ ग्रन्थो जैनतत्त्वज्ञानकोशस्या