________________
॥ सूरिभुवनभान्वष्टकम् ॥ रचयिता - पंन्यासः कल्याणबोधिविजयगणी
(वसंततिलका)
सज्ज्ञानदीप्तिजननैक - सहस्रभानो ! सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! दुष्कर्मभस्मकरणैकमनः कृशानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम्
॥१॥
यो वर्द्धमानतपसामतिवर्द्धमान भावेन भावरिपुभिः प्रतियुध्यमानः । क्रुच्छद्मलोभरहितो गलिताभिमानो भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥२॥
-
तेजः परं परमतेज इतो समस्ति कुदृष्टिभिद्तदमिचंदनि चामिदृष्टिः । भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥३॥
तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो ! तुभ्यं नमो निबिडमोहतमोघ्नभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥४॥