________________
॥ सूरिभुवनभान्वष्टकम् ॥ रचयिता - पंन्यासः कल्याणबोधिविजयगणी
(वसंततिलका) सज्ज्ञानदीप्तिजननैक-सहस्रभानो ! सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! दुष्कर्मभस्मकरणैकमनःकृशानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥१॥ यो वर्द्धमानतपसामतिवर्द्धमान - भावेन भावरिपुभिः प्रतियुध्यमानः । क्रुच्छद्मलोभरहितो गलिताभिमानो भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥२॥ तेजः परं परमतेज इतो समस्ति कुदृष्टिभिद्तदमिचंदनि चामिदृष्टिः । भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥३॥ तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो ! तुभ्यं नमो निबिडमोहतमोघ्नभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥४॥