________________
२१८
सोमसेनभट्टारकविरचितअधिपति अर्धमंडली होता है। चार हजार मुकुटबद्ध राजाओंका स्वामी मंडली होता है। आठ हजार मुकुटबद्ध राजाओंका स्वामी महामंडली होता है। सोलह हजार राजाओंका स्वामी अर्धचक्री होता है । और बत्तीस हजार राजाओंका स्वामी चक्रवर्ती होता है ॥ ७९-८० ॥
चतुरशीतिर्लक्षाश्च मातङ्गाश्च रथास्तथा । अष्टादश सुकोट्योऽमी वायुवेगास्तुरममाः ॥ ८१ ॥ चतुरशीतिः सुकोट्यो यमदूताः पदातयः । षण्णवतिसहस्राणि स्त्रीणां च गुणसम्पदाम् ॥ ८२ ॥ द्वात्रिंशत्सुसहस्राणि मुकुटबद्धभूभृताम् । तावन्त्येव सहस्राणि देशानां सुनिवेशिनाम् ॥ ८३ ॥ नाटकानां सहस्राणि द्वात्रिंशत्ममितानि वै । द्वासप्ततिसहस्राणि पुरामिन्द्रपुरश्रियाम् ॥ ८४ ॥ ग्रामकोट्यश्च विज्ञेया रम्याः षण्णतिप्रमाः। द्रोणामुखसहस्राणि नवतिर्नव चैव हि ॥ ८५॥ पत्तनानां सहस्राणि चत्वारिंशदथाष्ट च । षोडशैव सहस्राणि खेटानां परिमा मता ॥ ८६ ॥ भवेयुरन्तरद्वीपाः षट्पञ्चाशत्ममामिताः। संवाहनसहस्राणि संख्यातानि चतुर्दश ॥ ८७ ॥ स्थालीनां कोटिरेकोक्ता रन्धने या नियोजिता । कोटीशतसहस्रं स्याद्धलानां कुलवैः समम् ॥ ८८ ॥ तिस्रोऽपि व्रजकोट्यः स्युर्गोकुलैः शश्वदाकुलाः। कुक्षिवासशतानीह सप्तैवोक्तानि कोविदैः ॥ ८९ ॥ दुर्गाटवीसहस्राणि संख्याष्टाविंशतिर्मता । म्लेच्छराजसहस्राणि रम्याष्टादशसंख्यया ॥ ९० ॥ कालाख्यश्च महाकालो माणवः पिङ्गलस्तथा । नैसप्पैः पद्मः पाण्डुश्च शवश्च सर्वरत्नकः ॥ ९१ ॥ निधयो नव विख्याता वाञ्छितार्थफलमदाः। भद्रेण परिणेतव्या देवाधिष्ठितशक्तयः ॥ ९२ ॥ भोग्यं भाण्डं च शस्त्रं च भूषणं देहवस्त्रकम् । धनं वायं बहुरत्नं ददते निधयः क्रमात् ॥ ९३ ॥