________________
* अवचूरिः ।
तथा तेषु तेषु समाचारेषु गृहिसमुचितेषु इति वर्तते । स्मृतिसमन्वागतः स्यादाभोगयुक्तः स्याद् । कथमित्याह- अमुकोऽहं देवदत्तादिनामा, अमुककुल इक्ष्वाक्वाद्यपेक्षया, अमुकशिष्यो धर्मतस्तत् तदाचार्याद्यपेक्षया । न मम तदारम्भे विराधनारम्भः । तथा वृद्धिर्ममैतस्य धर्मस्थानस्य । एतदत्र सारं धर्मस्थानम् । एत -दात्मभूतमात्मानुगामुकत्वेन । असारमन्यत् सर्वमर्थजातादि, विशेष-तोऽविधिग्रहणेन विपाकदारूणत्वात् । एवमाह त्रिलोकबन्धुः, परमकारूणिकस्तथाभव्यत्वनियोगात् । सम्यक् प्रबुद्धोऽनुत्तरबोधिबीजतः, भगवनर्हन् । एवमालोच्य तदविरूद्धेषु समाचारेषु सम्यग् वर्तेत सूत्रनीत्या । भावमङ्गलमेतद्विधिना वर्तनं, तन्निष्प -त्तेरधिकृतसमाचारनिष्पत्तेः ।
तथा जागृयाद् भावनिद्राविरहेण । धर्मजागरया तत्त्वालोचनरूपया । को मम कालो वयोऽवस्थारूपः, किम्मे तस्यामुचितं धर्मानुष्ठानम् । असारा विषयास्तुच्छाः शब्दादयः, नियमगामिनो, वियोगान्ताः, विरसावसानाः, परिणामदारुणाः ।
तथा भयानको मृत्युः, सर्वाभावकारी तत्साध्यार्थक्रियाऽभावात्, अविज्ञाताऽऽगमनोऽदृष्टस्वभावत्वान्मृत्योः, अनिवारणीयः स्वजनादिबलेन, पुनः पुनरनुबन्धी अनेकयोनिभावेन । धर्म एतस्यौ -षधं मृत्योर्व्याधिकल्पस्य, एकान्तविशुद्धः, महापुरुषसेवितः,
81
द्वितीयं साधुधर्मपरिभावनासूत्रम् ।