________________
* मूलम् ।
जायाए धम्मगुणपडिवत्तिसद्धाए, भावेज्जा एएसिं सरूवं पयइसुंदरत्तं, अणुगामित्तं, परोवया -रित्तं, परमत्थहेउत्तं । तहा दुरणुचरत्तं, भंगदारूणत्तं, महामोहजणगत्तं, भूयो दुल्लहत्तंति । भावेउणेवं जहासत्तीए उचियविहाणेण अच्चंतभावसारं पडिवज्जेज्जा। तं जहा - थूलगपाणाइवायविरमणं, थूलग मुसा-वायविरमणं, थूलगअदत्तादानविरमणं, थूलगमेहूण-विरमणं, थूलग परिग्गहविरमणमिच्चाइ। * अवचूरिः।
धर्मगुणबीजमाहितं सत् तद् वैचित्र्यात् तत् तत्कालादिनिमित्तभेदेन विपच्यते तदाभिमुख्येन । तत एव धर्मगुणप्रतिपत्तिश्रद्धोप -जायते । तस्यां समुपजातायां भावं तथाविधकर्मक्षयोपशमेन भावयेदेतेषां धर्मगुणानाम्, स्वरूपं प्रकृतिसुन्दरत्वं जीवसङ्क्लेशविशुद्धया, अनुगामुकत्वं भवान्तरवासनानुगमनेन, परोपकारित्वं तथापीडानिवृत्त्याः, परमार्थहेतुत्वं परम्परया मोक्षसाधनत्वेन, तथा दुरनुचरत्वं सदैवानभ्यासात्, भंगे दारूणत्वं भगवदाज्ञाखण्डनतः, महामोहजनकत्वं धर्मदूषकत्वेन, भूयो दुर्लभत्वं विपक्षानुबन्धपुष्ट्येति भावयित्वैवं यथाशक्ति ।
वदास
सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।