SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सिद्धक्षेत्रं प्रति । कथमियं सम्भवतीत्याह - उत्कर्ष - विशेषत इयं गत्युत्कर्षविशेषदर्शनादेवमस्पृशद्गतिः सम्भवति सिद्धस्य पुनरागमनात् कालस्य चानादित्वात् षण्मासान्तः प्रायोऽनेकसिद्धेः भव्योच्छेदप्रसङ्ग इति विभ्रमनिरासार्थमाह- अव्यवच्छेदो भव्या - नामनन्तभावेन तथा सिद्धिगमनादावपि । वनस्पत्यादिषु कायस्थितिक्षयदर्शनादनन्तस्याऽपि राशेः क्षयोपपत्तेः पुनः संशयेति तद्व्यवच्छित्त्यर्थमाह- एतदनन्तानन्तकं न युक्ताऽनन्तकादि, समया अत्र ज्ञातम्, तेषां प्रतिक्षणमतिक्रमेऽनुच्छेदोऽनन्तत्वात् । एवञ्च सति भव्यत्वं योग्यतामात्रमेव सिद्धिं प्रति केषाञ्चित् प्राणिनां ये न कदाचिदपि सेत्स्यन्ति को वा एवमभव्येभ्यो विशेषो भव्यानामित्याशङ्काव्यपोहायाह - प्रतिमायोग्यदारूनिदर्शनेन । एतद् दारू प्रतिमायोग्यं ग्रन्थ्यादिशून्यतया, तदन्यत् तद्युक्ततयेति । व्यवहारमतमेतत् । एषोऽपि तत्त्वाङ्ग, एषोऽपि व्यवहारनयः परमार्थाऽङ्गं मोक्षाऽङ्गमित्यर्थः । - कुत: ? इत्याह - प्रवृत्तिविशोधनेन, तन्मतेन प्रव्रज्यादिप्रदानात् परलोकप्रवृत्तिविशोधनेन, एवमनेकान्तसिद्धिस्तन्नीत्या । तथा निश्चयाऽङ्गभावेन, एवं प्रवृत्त्या पूर्वकरणादिप्राप्तेः । परिशुद्धस्तु केवलमाज्ञापेक्षी पुष्टालम्बनः । एषा आज्ञा इह भगवत उभयनयगर्भा अथवा पञ्चसूत्रोक्ता सर्वैव समन्तभद्रा सर्वतो निर्दोषा । त्रिकोटिपरिशुद्धया कष-च्छेद 196 सावचूरि-सटीकानुवादं पञ्चसूत्रम् ।
SR No.023169
Book TitlePanch Sutram
Original Sutra AuthorN/A
AuthorHitvardhansuri
PublisherKusum Amrut Trust
Publication Year2017
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy