________________
ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ஸ்ெஸ்ஸ்ஸ்ஸ்ஸ்ஸ்
googliogadgaog gggggggggggggg
( ३५ ) आह - यदा व्याघ्रदुस्तटीन्यायेनान्यतरविराधनामन्तरेण प्रवृत्तिरेव घटां न प्राञ्चति, तदा किं कर्त्तव्यमित्याह सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खज्जा । मुच्चइ अइवायाओ पुणो विसोही न याविरई ॥ (ओ.नि. ४७ )
postosostosbobodooscooooooooooooooooooo
१०७०७०७०७०७
-
चन्द्र. संयमविराधनामात्मविराधनां च परित्यज्य सर्वत्र गमनादिकं कर्त्तव्यमिति पूर्वं विस्तरतो निरूपितम् । तत्र कश्चित्प्रश्नयति यदा संयमविराधनात्मविराधनयोर्मध्येऽन्यतराऽवश्यम्भाविनी स्यात्, तदा किं कर्त्तव्यम् ? किं संयमविराधनां परित्यज्यात्मविराधना स्वीकरणीया ? किं वाऽऽत्मविराधनां परित्यज्य संयमविराधना स्वीकरणीया ? इति । प्रश्नकर्तुर्गूढाभिप्रायस्त्वेवम् स्वशरीररक्षां तु सर्वे कुर्वन्ति, तत्र न कोऽपि धर्मः, यदा तु स्वविराधनयाऽपि षट्कायरक्षा क्रियेत, तदैव महान्धर्मः । परोपकारैकरसिकानां संयतानां तु एष विशेषतो धर्मः, यदि हि तेऽपि स्वशरीररक्षार्थं षट्कायविराधनां स्वीकुर्युः, तदा को भेदस्तेषां संसारिणां च मध्ये ? तस्मादुभयोर्मध्ये संयमविराधनैव गरियसी, नात्मविराधना ← इति ।
७०९७०७९५
सिद्धान्त रहस्य बिन्दुः
अत्र चतुर्दशपूर्वधराः ऐदम्पर्यार्थावलोकिनः श्रुतमात्रागम्यचिन्ताभावनाज्ञानगम्यतत्त्वावबोधवन्तः श्री भद्रबाहुस्वामिनः प्राहुः सव्वत्थ इत्यादि । सर्वस्मिन्नपि कार्ये षट्कायरक्षात्मकं संयममेव रक्षेदित्युत्सर्गः । यदा तु तद्रक्षायामात्मविराधना -ऽवश्यम्भाविनी, तदा संयमं परित्यज्यापि आत्मानमेव रक्षेत् । तत्र कारणं तु इदमेव यत् आत्मानं रक्षन् स षट्कायविराधनायाः प्रायश्चित्तं कृत्वा विशुद्धिं प्राप्स्यति, यदि च षड्जीवनिकायं रक्षन् आत्मानं व्यापादयेत्, तर्हि स देवलोकादौ गतोऽविरतिं प्राप्नुयात्, तत्र च षट्कायविरतिर्दूरापास्तैवेति लाभमिच्छतो हानिरायाता । तस्मात् षट्कायविराधनामनन्यगत्या स्वीकृत्याऽपि षट्कायाद्यर्थमेवात्मानं रक्षेन्मुनिरिति प्रकृतगाथोत्तरार्धार्थः ।
वस्तुतस्तु साऽऽत्मरक्षा षट् कायरक्षैव, तत्कारणत्वात्, ततश्च निश्चयतः षट्कायरक्षापरिणामस्य अनाबाधात् प्राणातिपात एव न येन प्रायश्चित्तसकाशात्तच्छुद्धिः कर्त्तव्या स्यात् । प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा इति हि प्राणातिपातलक्षणम्, अत्र तु अप्रमत्ततयैव प्राणव्यपरोपणान्न हिंसा, तदभावे च तत्प्रायश्चित्तमपि नास्त्येवेति सर्वथा
२७०५ ५७