________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
उच्यते, अनालीढसिद्धान्तसद्भावेन यत्किञ्चिदुच्यते, यत्तदुक्तं जघन्यत एकेनैव भवेन सिद्धयतीति, तद् वज्रर्षभनाराचसंहनन-मङ्गीकृत्योक्तम्,
एतच्च छेवट्टिकासंहननमङ्गी-कृत्योच्यते । छेवट्ठकासंहननो हि
यद्यतिशयेनाराधनं करोति, ततस्तृतीये भवे मोक्षं प्राप्नोतीति, उत्कृष्टशब्दश्चात्रातिशयार्थे द्रष्टव्यो, न तु भवमङ्गीकृत्य, भवाङ्गीकरणे पुनरष्टभिरेवोत्कृष्टतो भवैः छेवट्टिकासंहननो सिद्ध्यतीति । (ओ.नि. ८०५) Bookdodio sity odyi tohtosbodystoodio hidesiy stories lookianded todidesike465
चन्द्र. ननु सामायिकं प्राप्य उत्कृष्टतोऽष्टभवाभ्यन्तरे सिद्ध्यतीति उक्तमत्र, परं न तद् घटते, यतो हि चतुर्दशपूर्वधराः सामायिकमवाप्याऽपि अनन्तभवभाजो भवन्तीति प्रसिद्धमेवेति चेत्
न, उत्कृष्टत अष्टस्वेव भवेषु सामायिकप्राप्तिः सम्भवति, नाधिकेषु इति हि तत्त्वम् । चतुर्दशपूर्वधराश्च तस्मिन्नेव भवे सामायिकभाजः पतने सति अनन्तभवान् निगोदादिष्वेव पर्यटन्ति, तत्र च सामायिकप्राप्ति स्त्येवेति न तेषामष्टभवेभ्योऽधिकभवे सामायिकावाप्तिः, ततश्च न दोषः ।
इदमत्र तत्त्वम् । एकस्मिन्भवे यदि क्षणमात्रमपि षष्ठगुणस्थानावाप्तिः स्यात्, तर्हि स एको भवो गणनीयः, एवं संख्यातकालादसंख्यातकालादनन्तकालाद् वा पश्चात् यदि पुनरपि मनुष्यभवे षष्ठगुणस्थानावाप्तिः स्यात्, तहि स द्वितीयो भवो गणनीयः । एवंक्रमेणाष्टसु भवेषु एव सामायिकावाप्तिः, अष्टमभवेऽवश्यं मोक्षः । एतच्चोत्कृष्टतः, जघन्यतस्तु एकस्मिन्नेव भवे सामायिकावाप्तिः, तस्मिन्नेव भवे मोक्षादिति ।
तथा चतुर्दशपूर्वधरेषु असङ्ख्याततम एव भागः अनन्तसंसारादिकमवाप्नोति, तदन्ये तु असङ्ख्यगुणास्ते तस्मिन्नेव भवे संख्यातासंख्यातादिभवेभ्यः पश्चाद्वा मोक्षं यान्तीति न सकलचतुर्दशपूर्वधराणां नियमादनन्तसंसारित्वं कल्पनीयमिति सक्षेपः । ____ इत्थं तावत्संपूर्णोघनियुक्तिमाश्रित्य सिद्धान्तरहस्यबिन्दुग्रन्थस्य प्रथम उल्लास: समाप्तो भवति ।
___ यत्किञ्चिदत्र जिनाज्ञाविपरीतं प्रतिपादितमनाभोगादितः, तच्छोधयन्तु संविग्नगीतार्था इति प्रार्थ्य विरम्यते ।
_ नमोऽस्तु तस्मै जिनशासनाय । ஒவைஷைஷைவஷைஜைஷைஷஷஷஷஷைஜை सिद्धान्त रहस्य बिन्दुः
१९९