SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல GOOGopodesdesemopeganeseamleshaggregardesopropologeogopsgoop (१५७) यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते, तदेवोपकरणं तस्य साधोर्भवति, यत्पुनरतिरेकं-ज्ञानादीनामुपकारे न भवति तत्सर्वमधिकरणं भवति । (ओ.नि. ७४२) ຕໍ່ຂໍ້ອ້ອຍຂໍຍໍຂໍຍໍຂໍຍໍຂໍຂໍຍອ້ຍບໍ່ຂໍອອ້ຍຂໍຍອ້ງຂໍຂໍຍໍຂໍຍໍຍຂໍຍໍຂໍຍໍຂໍອບໍ່ຂໍຂ້ອງ चन्द्र. तथा च ज्ञानाद्युपकारित्वमुपकरणत्वं ज्ञानाद्यनु पकारित्वं चाधिकरणत्वमित्यनन्तरप्रतिपादित एवार्थ अत्र गृहीतः । तथा चोपकरणानामधिकरणानां चोपकरणत्वं अधिकरणत्वं च न स्वाभाविकं, परन्तु ज्ञानाद्युपकारापकारप्रयोजकत्वेनैव, ज्ञानाद्युपकारश्च द्रव्यक्षेत्रादीनाश्रित्येति । तथाहि - प्राचीनकाले साधूनां पुस्तकादिकं विनाऽपि ज्ञानादिवृद्धिसम्भवात् पुस्तकादिग्रहणे च संयमविराधनादिदोषबाहुल्यात् पुस्तकादिकं तानाश्रित्याधिकरण-मासीत् । अधुनातनानां साधूनां प्रज्ञादिमान्द्यात्पुस्तकादिकं विना ज्ञानादिवृद्ध्यसम्भवात् ज्ञानादिवृद्धिकरं पुस्तकादिकमल्पदोषसम्भवेऽप्युपकरणमिति । अत एव 'यत्प्राचीनं तदेव शोभनम्, यन्नूतनं तत्तुच्छं' इत्याग्रहोऽपि न श्रेयान्, प्राचीनस्य प्राचीनकाले शोभनत्वेऽप्यधुनाऽशोभनत्वसम्भवात्, नूतनस्य च प्राचीनकालेऽशोभनत्वेऽप्यधुना शोभनत्वसम्भवात् । एतच्च पुस्तकप्रतादिप्रकाशनाधाकर्मादिदोषयुतो पाश्रयनिवसनदण्डासनाद्युपधिग्रहणादिषु स्पष्टमे वानुभूयत इति के वलं प्राचीनताधर्ममात्रेणादरणं नूतनताधर्ममात्रेण च तिरस्करणं न जिनमतविदां प्रशंसाहमिति सङ्क्षेपः । ___वस्तुतस्तु ज्ञानादिवृद्धिमपेक्ष्य गीतार्थेन शास्त्रीयया यतनया आसेव्यमानं प्राचीनं नूतनं वा वस्तु सर्वं जिनानुमतमेवेति तत्तिरस्करणे जिनानुमतितिरस्करणमवश्यम्भावीति भावसापेक्षद्रव्यादिपरायणैर्भवितव्यं मध्यस्थेन मतिमता । லலலலலலலலலலலலலலலலலலலலலலலலலலலல १९२ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy