________________
શ્રી ભગવતીજી સૂત્ર વ્યાખ્યાન ગ્રંથનો આધાર પ૩ર” પાનાના આટલા વિશાળ વિવેચન માત્ર ગણધર ભગવંત કરેલ એક માત્ર નમસ્કાર અને તેની સંક્ષિપ્ત ગંભીર ટીકા.
'नमा सिधा" (ગણધર સુધર્માસ્વામીજી મહારાજ)
નવાંગી ટીકાકાર પૂ. અભયદેવસૂરીશ્વરજી મ.નું
नभी सिद्धा' पहनु विवेचन. “णमो सिद्धाण' ति, सित बद्धमष्टप्रकार कर्मेन्धन ध्मात-दग्ध जाज्वल्यमानशुक्लध्यानानलेन गैस्ते निरुक्तविधिना सिद्धाः, अथवा 'विधुगतौ' इति वचनाब सेधन्ति स्म-अपुनरावृत्त्या निवृतिपुरीमगच्छन् , अथवा 'षिधु संराद्वौ' इति वचनात् सिद्ध्यन्ति स्मनिष्ठितार्था भवन्ति स्म, अथवा 'षिधू शाने माङ्गल्ये च' इति वचनात सेधन्ति स्म-शासितारोऽभूवन् माङ्गल्यरूपतां चानुभवन्ति स्मेति सिद्धाः, अथवा सिद्धाः-नित्याः, अपर्यवसानस्थितिकत्वात , प्रख्याता वा भव्यरुपलब्धगुणसन्दोहत्वात् , आह च-“ध्मात सितं येन पुराणकर्म यो वा गतो निर्वृति सौवमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥१॥" अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञानदर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षात्पादनेन भव्यानामतीवोपकारहेतुत्वादिति ।
GOOOOD