SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ असावतिक्रान्तार्थोपार्जनसमर्थयौनवया जलस्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थगन्तृकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलप्राणिगणसञ्चारमनोरथायां महानदीजलपुरानीतकाष्ठानि जिघृक्षुरुपभोगधर्मावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, उक्तं च"उक्खणई खणइ निहणइ, रतिं ण सुअति दिया वि य ससंको । लिंपइ ठएइ सययं, लंछियपडिलंछियं कुणइ ।।१।। भुंजसु न ताव रिक्को, जेमेउं नवि य अज्ज मज्जीहं । न वि य वसीहामि धरे, कायव्वमिणं बहुं अज्ज ।।२।।" अथ प्रकृतार्थो-अनन्तसौख्ये मोक्षे पुनरादरं' अनुरागं, 'शिथिलयसि' शिथिलं कुरुषे, मोक्षगमनाय तद्धेतुष्वहिंसादिषु न प्रवर्तसे इति भावः ||७७।। गाथा - संसारो दुहहेऊ, दुक्खफलो दुस्सहदुक्खरूवो य। न चयंति तं पि जीवा, अइबद्धा नेहनिअलेहिं ।।७८ ।। व्याख्या - व्याख्या-हे जीव ! अयं संसारो दुःखस्य हेतुः-कारणं, तथा दुःखमेव फलं यस्याऽसौ दुःखफलः, च पुनः 'दुस्सहं, सोढुमशक्यं यद्दुःखं तद्रूपस्तत्स्वरूपः, तमपि संसारं 'जीवाः' प्राणिन; 'स्नेहनिगडैः' १. उत्खनति खनति निदधाति (निहन्ति), रात्रौ न स्वपिति दिवाऽपि च सशङ्कः । लिम्पति स्थगयति सततं, लाञ्छितप्रतिलाञ्छितं करोति ।।१।। भुझ्व न तावद्रिक्तः (निर्व्यापारो), जिमितुं नाऽपि चाद्य मक्ष्यामि । नाऽपि च वत्स्यामि गृहे, कर्तव्यमिदं बह्वद्य ।।२।। KRRIERRRRRRREKKKRREKKEKREKRKEXXX ४४ वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy