________________
'पुत्रा मे भ्राता मे, स्वजनो मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं, पशुमिव मृत्युर्जनं हरति ।।१।। पुत्रकलत्रपरिग्रह-ममत्वदोषैर्नरो व्रजति नाशम् ।। कृमिक इव कोशकारः, परिग्रहाद्दुःखमाप्नोति ।।२।।' तदेवं कषायेन्द्रियप्रमत्तो मातृपित्राद्यर्थमर्थोपार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह च-“अहो" इत्यादि, अहश्च सम्पूर्ण रात्रिं च, च शब्दात्पक्षं मासं च निवृत्तशुभाध्यवसायः परिसमन्तात्तप्यमानः परित्तप्यमानः सन् तिष्ठति, तद्यथा-'कईया' वच्चइ सत्थो ?, किं भंडं ? कत्थ केत्तिया भूमी ? । को कयविक्कयकालो ?, निव्विसई किं कहिं केण ? ।।१।।' इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह'काले'त्यादि, काल:-कर्तव्यावसरस्तद्विपर्यासोऽकालः, सम्यगुत्थातुंअभ्युद्यन्तुं शीलमस्येति समुत्थायीति पदार्थो, वाक्यार्थस्तु कालेकर्तव्यासरे अकालेन-तद्विपर्यासेन समुत्तिष्ठतेऽभ्युद्यतमनुष्ठानं करोति, तच्छीलश्चेति, कर्तव्यावसरे न करोतीत्यन्यदा च विदधातीति, यथा वा काले करोत्येवमकालेऽपीति, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकालाकालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतभर्तृका सती ग्रहणकालमतिवाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वा क्रियाः करोतीति, तदुक्तं'मासैरष्टभिरह्ना च, पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण, येनाऽन्ते सुखमेधते ।।१।।' धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति, किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह-“संजोगट्ठी' संयुज्यते संयोजनं वा संयोगोऽर्थः-प्रयोजनं संयोगार्थः, सोऽस्याऽस्तीति संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिः संयोगस्तेनाऽर्थी-तत्प्रयोजनी, अथवा शब्दादिविषयः संयोगो मातापित्रादिभिर्वा, तेनाऽर्थी कालाकालसमुत्थायी भवतीति, किञ्च "अठ्ठालोभी" अर्थो-रत्नकुप्यादिस्तत्र आ-समन्ताल्लोभोऽर्थालोभः, स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति,
मम्मणवणिग्वत्तथाहि१. कदा व्रजति सार्थः, किं भाण्डं कुत्र कियती भूमिः । कः क्रयविक्रयकालो, निविंशति
(निर्गच्छति) किं क्व केन ? ॥१॥
४३
वैराग्यशतकम्