________________
तत्राऽऽद्यगाथेयम् -
गाथा - संसारंमि असारे, नत्थि सुहं वाहिवेयणापउरे । जाणतो इह जीवो, न कुणइ जिणदेसियं धम्मं ॥ १ ॥
व्याख्या 'असारे' अप्रधाने, 'संसारे' चातुर्गतिकरूपे, तत्त्ववृत्त्या प्रायो वा किञ्चिदपि 'सुखं' सातवेद्यं कर्म, 'नास्ति' न विद्यते, असारत्वे कारणमाह-यतः किम्भूते संसारे ?, व्याधिश्च शरीरमन्दता, वेदना चमानसं दुःखं, ताभ्यां 'प्रचुरे' बहुले, अस्मिन् संसारे केवलं जन्तूनां व्याधिवेदने एव विद्येते एवं जानन्नपि 'इह' संसारे, 'जीवः' प्राणी, प्राप्तमपि जिनैस्तीर्थकृद्भिः 'देशितं' उपदिष्टं, 'धर्मं' दुर्गतौ पततः प्राणिनो धरतीति धर्मस्तं, 'न करोति' न विधत्ते, कर्मबहुलत्वादिति । । १ । ।
“वैराग्यशतकम्”
प्रणम्य श्रीधरं पार्श्व, पूर्वसूरिविनिर्मितम् । वैराग्यशतकं सम्यग् विवृणोमि यथामति ॥ १ ॥
-
व्याख्या
गाथा अज्जं कलं परं परारिं, पुरिसा चिंतंति अत्थसंपतिं । अंजलिगयं व तोयं, गलंतमाउं न पिच्छंति ॥ २ ॥
-
अद्यादिपदेषु प्राकृतत्वादनुस्वारः, 'पुरुषाः ' मूढा नराः, अद्य दिने 'कल्ये' आगामिदिने, ‘परस्मिन् आगामिवर्षे 'परारिं' परस्मिन् वर्षे (वा) 'अर्थसम्पत्ति' द्रव्यसम्पदं - अर्थसम्प्राप्तिं वा, 'चिन्तयन्ति' विचारयन्ति, यथाऽद्य दिने द्रव्यसम्पद् भविष्यति कल्ये वा परस्मिन् वा परारिं वा भविष्यति, इत्येवमाशाग्रस्तास्तिष्ठन्ति परं ते 'अञ्जलिगतं' अञ्जलिप्राप्तं, ‘तोयमिव' जलमिव, ‘गलत्' क्षरत्, आयुः 'न पश्यन्ति' न प्रेक्षन्ते-न विचारयन्ति, यथाऽञ्जलिगतं तोयं न कमपि कालं तिष्ठति तथेदमायुरपि क्षणे
२ वैराग्यशतकम्