________________
व्याख्या - 'त्रिभुवनजनान्' समस्तलोकान्, म्रियमाणान् दृष्ट्वा य आत्मानं प्रक्रमाद्धर्मे
'न नयन्ति'न प्रापयन्ति, तथा पापाञ्च हिंसादेन विरमन्ति' न निवर्तन्ते,
तेषां ‘धृष्टत्वं' धाष्टर्यं, धिग् धिक् ।।७५ ।। गाथा - मा मा जंपह बहुअं, जे बद्धा चिक्कणेहि कम्मेहिं ।
सव्वेसि तेसि जायइ, हियोवएसो महादोसो ।।७६।। व्याख्या - खल्वेवममी पुनः पुनः प्रतिबोध्यमाना अपि किमिति न प्रतिबुध्यन्त इति
'बहुकं' बहुलं, ‘मा मेति' निषेधे, 'जल्पत' वदत, यद्वा अयोग्यान् प्रत्युपदिशतो गुरून्प्रति साधूनामिदं वाक्यं-हे गुरवो ! मा मा बहुकं हितोपदेशादिकं जल्पत, कुतो ?, यतो ये प्राणिनश्चिक्कणे निबिडैः 'कर्मभिर्ज्ञानावरणीयादिभिर्बद्धा' आश्लिष्टास्तेषां प्राणिनां हितोपदेशो' धर्मोपदेशो महादोषो महाद्वेषो वा, दोषस्तु-"आमे घडे निहत्तं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ।।१।।" इत्यादिको, दर्पान्मामप्ययमेवमनुशास्तीत्यादिरूपो द्वेषो वा 'जायते' भवति, ब्रह्मदत्तचक्रवर्त्यादिवद्, यत उक्तं“उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवलं विषवर्धनम् ।।१।।" ततश्च यस्मानिबिडकर्मणां हितोपदेशो महादोषो महाद्वेषो वा जायते तस्मात्तान् प्रति मा बहु बहु जल्पतेत्यर्थः ।।७६।।
गाथा - कुणसि ममत्तं धणसय-णविहवपमुहेसुऽणंतदुक्खेसु ।
सिढिलेसि आयरं पुण, अणंतसुक्खंमि मुक्खंमि ।।७७।।
व्याख्या - रे मूढात्मन् ! त्वं 'अनन्तदुःखेषु' अनन्तदुःखकारणेषु,
धनस्वजनविभवप्रमुखेषु, धनं-हिरण्यादिः, स्वजनो मात्रादिः, विभवोहस्त्यश्वादिस्तत्प्रभृतिषु 'ममत्वं' ममीकारं करोषि, तथा चोक्तं श्रीआचाराङ्गे [लोकविजयाध्ययने प्रथमोद्देशके]
४१
वैराग्यशतकम्