________________
गाथा - संबुज्झह किं न बुज्झह ?, संबोहि खलु पेच्च दुल्लहा ।
नो हूवणमंति राइओ, नो सुलहं पुणरवि जीवियं ।।७३।।
व्याख्या - श्री सूत्रकृताङ्गे वैतालीयाध्ययने भगवानादितीर्थकरो भरततिरस्काराग
तसंवेगान् स्वपुत्रानुद्दिश्येदमाह, यदि वा सुरासुरनरोरगतिरश्चः समुद्दिश्याऽऽह, यथा-'सम्बुध्यध्वं' यूयं धर्मे बोधं कुरुत, 'किं न बुध्यध्वं ?' एवंविधसामग्र्यां सत्यां कस्माद्धर्मे बोधो न क्रियत ? इत्यर्थः, यतोऽकृतधर्माणां ‘प्रेत्य' परलोके सम्बोधिर्धर्मप्राप्तिरूपा पुनर्दुर्लभा, खलु शब्दस्याऽवधारणार्थत्वात् सुदुर्लभैव, नो 'हु निश्चये, नैवाऽतिक्रान्ता रात्रय 'उपनमन्ति' पुनढोकन्ते, नातिक्रान्तो यौवनादिकालः पुनरावर्त्तत इति भावः, पुनरपि ‘जीवितं' संयमजीवितं, 'नो' नैव, सुलभं, यदि वा ‘जीवितं' आयुस्रुटितं तत्सन्धातुं न शक्यत इत्यायुषोऽनियतत्वमाह ।।७३।।
गाथा - डहरा बुड्डा' य पासह, गब्भत्था वि चयंति माणवा ।
सेणे जह वट्टयं हरे, एवं आउखयंमि तुट्टइ ।।७४।।
व्याख्या - “डहरा" बाला एव एके-केचिज्जीवितं त्यजन्ति, तथा वृद्धाश्च, गर्भस्था अपि
मानवा, उपदेशयोग्यत्वान्मानवग्रहणं, एतत् पश्यत्यूयं, यत्सर्वास्वप्यवस्थासु प्राणी जीवितं त्यजतीति, तथाहि-त्रिपल्योपमायुष्कस्याऽपि पर्याप्त्यनन्तरमन्तर्मुहूर्तेनैव कस्यचिन्मृत्युरुपतिष्ठतीत्यत्र दृष्टान्तमाह-यथा श्येनो 'वर्तकं' तित्तिरिजीवं 'हरते' हन्ति, एवमायुःक्षये प्राणान्मृत्युरपहरेदायुःक्षये वा त्रुट्यति जीवितम् ।।७४ ।।
गाथा - तिहुयणजणं मरंतं, दगुण नयंति जे न अप्पाणं ।
विरमंति न पावाओ, धिद्धि धिद्वत्तणं ताणं ।।७५।। १. हु उवणमंति इत्यपि पाठः । २. वट्ठा इत्यपि पाठः ।३. वढायं हरे एवमाउक्खयंमि इत्यपि पाठः ।
४०
वैराग्यशतकम्