________________
व्याख्या - ‘रे जीव !' आत्मन् !, त्वं 'शृणु' आकर्णय, किं तदित्याह
'चञ्चलस्वभावान्' चपलस्वरूपान्, सकलानपि बाह्यभावान् शरीरादीन् तथा 'नवभेदो' नवप्रकारो य: ‘परिग्रहो' धनधान्यक्षेत्रवास्तुरूप्यसुवर्णकुप्यद्विपदचतुष्पदरुपस्तस्य यद् 'विविधजालं' अनेकप्रकारसमूहस्तञ्च मुक्वा परलोके यास्यसीति गम्यते, अतः संसारे यदस्ति धनधान्यादिकं तत्सर्वं ‘इन्द्रजालमिव' तन्त्रबलेनाविद्यमानवस्तुप्रकाशनमिव, इन्द्रजालं वस्तुगत्याऽसदित्यर्थः ।।७।।
गाथा - पियपुत्तमित्तघरघरणिजाय, इहलोइअ सवि नियसुहसहाय ।
नवि अत्थि कोईतुहसरणिमुक्ख, इक्कल्लुसहसि तिरिनरयदुक्ख ।।७१।।
व्याख्या - हे 'मूर्ख !' अज्ञानिन् !-आत्मन् !, यदर्थं त्वं द्रव्याधुपार्जने
परवञ्चनादिकं कुरुषे तत्सर्वमैहलौकिकं पितापुत्रमित्रगृहिणीनां 'जातं' समूहस्तव नरकादौ प्राप्तस्य 'शरणे' निर्भयत्वस्थापने, 'निजशुभसहाय' आत्मकल्याणनिमित्तं न कोऽप्यस्ति, न कोऽपि तत्र त्रातेत्यर्थः, केवलं जन्मान्तरे ‘एक एव' एकाक्येव, तिर्यङ्नरकदुःखानि सहिष्यसे, ये वर्तमाने काले प्रसिद्धास्ते भूते भविष्यत्यपि भवन्तीति वचनाददुष्टः प्रयोगः ।।७१।।
गाथा - कुसऽग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए ।
एवंमणुआणजीवियं, समयंगोयम !मा पमायए ।।७२।।
व्याख्या - कुशाग्रे यथा अवश्यायबिन्दुकः' शरत्कालभाविश्लक्षणवर्षबिन्दुः, स्वार्थे कः
प्रत्ययः, 'स्तोकं' अल्पं, कालमिति गम्यते, तिष्ठति लम्बमानक, एवं मनुजानां जीवितं, अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ।।७२।।
१. निरयदुक्ख इत्यपि पाठः ।
३९
वैराग्यशतकम्