________________
गाथा - नरएसु वेयणाओ, अणोवमाओ असायबहुलाओ । रे जीव ! तए पत्ता, अनंतखुत्तो बहुविहाओ ।। ६१ ।।
व्याख्या रे जीव ! त्वया ‘अनन्तकृत्वो'ऽनन्तवारान्, 'नरकेषु' रत्नप्रभादिषु सप्तसु 'बहुविधा' अनेकप्रकारा 'अनुपमा' अनन्यसदृशा असातेन दुःखेन बहुलाव्याप्ता वेदना - असातावेदनीयकर्मजनिताः पीडाः प्राप्ता, यत उक्तं
-
३६
'नेरइयाणं भंते ! कइविई वेयणं पचणुभवमाणा विहरंति ?, गोयमा ! दसविहं, तं जहा-सीयं १ उसिणं २ सुहं ३ पिवासं ४ कंडूयं ५ परज्झं ६ जरं ७ दाहं ८ भयं ९ सोगं १०”
गाथा - देवत्ते मणुअत्ते, पराभिओगत्तणं उवगएणं । भीसणदुहं बहुविहं, अणंतखुत्तो समणुभूयं ।। ६२ ।।
[ एतट्टीका] - " तत्र शीतोष्णे प्रतीते, क्षुत्पुनर्नारकाणां सदा स्थायिनी, ते हि क्षुद्वेदनादह्यमानाः सकलजगदुद्धृतादिपुद्गलाहारेऽपि न तृप्यन्ति, पिपासा तु नित्यं कण्ठोष्ठतालुजिह्वादिशोषविधायिनी सकलजलधिजलपानेऽपि नो शाम्यति, कण्डूः क्षुरकादिभिरप्यनुच्छेद्या, "परज्झं" पारवश्यं, ज्वरो यावज्जीवमत्रत्यादनन्तगुणो, दाहभयशोका अप्यत्येभ्योऽनन्तगुणा
इति" ।। ६१ ।।
व्याख्या रे जीव ! त्वया 'देवत्वे' देवभवप्राप्तौ तथा 'मनुजत्वे' 'मनुष्यभवप्राप्तौ, 'परे' स्वस्मादन्ये देवा मनुजाश्च तेषां 'अभियोगत्वं' परतन्त्रत्वं,
-
वैराग्यशतकम
发 发