________________
' शोचन्ति ' शोकं कुर्वन्ति, ते के ?, यैर्वराकैः 'पापप्रमादवशेन' दुष्टालस्यादिपरतन्त्रतया जिनधर्मो न 'सञ्चितः ' स्वात्मनि न सम्भृतो 'हा ! हा !! वयमकृतधर्माणः परलोके कथं सुखिनो भविष्याम' इति शोकं विदधतीति भावः । ५४||
-
गाथा - धी- धी धी संसारं,' देवो मरिऊण जं तिरी होइ । मरिऊण रायराया, परिपच निरयजालाहिं । । ५५ ।।
व्याख्या संसारं चातुर्गतिकरूपं-भवं धिग् धिग्, धिक्याभिधानं तु निन्द्यतमत्व सूचनार्थं, संसारस्य धिक्त्वे कारणमाह यस्माद्देवः' सुरो 'मृत्वा' च्युत्वा ‘तिर्यक्' पृथिव्यादिर्भवति, तथा 'राजराजो' वासुदेवादिर्मृत्वा निरयज्वालाभिः परिपच्यते, यत उक्तं
गाथा - जाइ अणाहो जीवो, दुमस्स पुष्पं व कम्मवायहओ । धणधन्नाहरणाइं, घरसयणकुडुंबमिल्हेवि ।। ५६ ।।
व्याख्या
गाथा
व्याख्या
-
३२
'मीरासु संठएसु य, कुडुसु अ पयणगेसु कुंभीसु ।
लोहीसु अ पलवंते, पयंति कालाउ नेरइए ।। १ ।। " ।। ५५ ।।
-
हे आत्मन् ! त्वया 'संसारे' भवे, 'संसरता' इतस्ततः पर्यटता सता कदाचिद् 'गिरिषु' पर्वतेषु 'उषितं' स्थितं, कदाचिद् 'दरीषु' कन्दरेषूषितं, ९. संसारे इत्यपि पाठः ।
वैराग्यशतकम्
हे जीव ! अयं 'जीव' आत्मा कर्मैव' वातो' वायुस्तेन' हतः 'प्रतिहतो, 'अनाथो' अस्वामिको-अनाधारः सन् 'द्रुमस्य' तरोः पुष्पमिव याति परलोकमिति गम्यते, यथा द्रुमस्य पुष्पं वातप्रेरितं सद्यात्यधः पतति, तथा जीवोऽपि, किं कृत्वा ?, धनधान्याभरणानि गृहं स्वजनकुटुम्बं च मुक्त्वा, अनुक्तोऽप्यत्र चकारो बोद्धव्यः, प्राकृतत्वाद्विभक्तिलोपश्च ।।५६।।
वसिय गिरीसु वसियं, दरीसु वसियं समुद्दमज्झम्मि । रुक्खऽग्गे यवसियं, संसारे संसरंतेणं । ५७ ।।