________________
गाथा - नीहरिय कह वि तत्तो, पत्तो मणुयत्तणं पि रे जीव ! ।
तत्थ वि जिणवरधम्मो, पत्तो चिंतामणिसरिच्छो ।।५१।। व्याख्या- रे जीव ! त्वं 'कथमपि' महता कष्टेन 'ततो' निगोदानिःसृत्य 'मनुष्यत्वं'
मनुजत्वमपि प्राप्त'स्तत्राऽपि' मनुष्यत्वेऽपि चिन्तामणिसदृक्षो, मनोभिलाषपूरकत्वात्, श्रीजिनवरधर्मः पुण्यवशात्प्राप्तः, “निसरेणीहर-नीलधाड-वर-हाडा" इति [८-४-७९ हैमप्राकृतसूत्रेण] निःसरेधहरादेशः ।।५।।
गाथा - पत्ते वि तंमि रे जीव !, कुणसि पमायं तुम तयं चेव ।
जेणं भवंधकूवे, पुणो वि पडिओ दुहं लहसि ।।५२।।
व्याख्या - रे जीव !, 'तस्मिन्' दुष्प्रापे श्रीजिनधर्मे 'प्राप्तेऽपि' लब्धेऽपि, त्वं तमेव
'प्रमादं' निद्राविकथादिकं करोषि, येन प्रमादेन भव एवाऽन्धकूपस्तस्मिन्पुनरपि पतितो 'दुःखं' नरकादावसातमेव - लभसे, आर्षवचनत्वाद्भविष्यत्यर्थे वर्तमानता, परं हारितं जिनधर्मं पुनर्न लप्स्यस इत्यर्थ : ।।५२।।
गाथा - उवलद्धो जिणधम्मो, न य अणुचित्रो पमायदोसेणं ।
हा! जीव ! अप्पवेरिअ! सुबहंपुरओ विसूरिहिसि ।।५३।। व्याख्या - हे जीव ! त्वया दैवयोगाजिनधर्म ‘उपलब्धः' प्राप्तः, परं 'प्रमाददोषेण'
आलस्यादिवैगुण्येन च 'नाऽनुचीर्णो' न सेवितो, 'हा' इति खेदे, 'आत्मवैरिन् !' स्वजीवशत्रो ! हे जीव ! 'पुरतो' मरणावसाने-परलोके वा, ‘सुबहुं' अतिशयेन, शशिराजवत् 'खेत्स्यसे' खेदं प्राप्स्यसिशोचिष्यसीत्यर्थः, 'खिदे—रविसूरा" विति [८-४-१३२ हैमप्राकृतसूत्रेण]
खिदेविसूरादेशः ।।५३।। गाथा - सोयंति ते वराया, पच्छा समुवट्ठियंमि मरणंमि ।
पावपमायवसेणं, न संचियो जेहि जिणधम्मो ।।५४।। व्याख्या - ते 'वराका' रङ्कास्तपस्विनः, पश्चान् मरणे ‘समुपस्थिते' प्राप्ते सति
३१
वैराग्यशतकम्