________________
गाथा - संझरागजलबुब्बुओवमे, जीविए य जलबिंदुचंचले । जुव्वणेय नइवेगसंनिभे, पावजीव ! किमियंन बुज्झसि ? ।। ४५ ।।
व्याख्या
-
गाथा
गाथा अन्नत्थ सुआ अन्नत्थ, रोहिणी परियणो वि अन्नत्थ । भूयबलिव्व कुटुंबं, पक्खितं हयकयंतेण ।। ४६ ।
व्याख्या
B
श्चपलास्त्वरितमन्यत्र संक्रामन्तीत्यर्थश्च पुनः 'प्रेम' स्त्र्यादीनां स्नेहः 'स्वप्नसमं' क्षणदृष्टनष्टमित्यर्थस्तस्माद्यज्जानीषे तथा कुरुष्वेति एतावतैषामस्थिरत्वं ज्ञात्वा स्थिरे श्रीजिनधर्मे उद्यमं कुर्विति सूचितम् ।।४४।। रूपकम् ।।
व्याख्या 'अन्यत्र' अन्यस्यां गतौ 'सुताः ' पुत्राः, अन्यत्र 'गेहिनी' कलत्रं, 'परिजनोऽपि' परिवारोऽपि अन्यत्र 'हतकृतान्तेन' निन्द्ययमेन, सुतादिरूपं कुटुम्बं भूतेभ्यो बलिरिव 'प्रक्षिप्तं' इतस्ततः पर्यस्तं, यथा भूतेभ्यो बलिः प्रक्षिप्यते तथेदं कुटुम्बमपि सर्वं कृतान्तेन भिन्नां भिन्नां गतिं प्रापितमिति ।। ४६।।
W
सन्ध्यारागश्च जलबुद्बुदश्चेति द्वन्द्वस्ताभ्यामुपमा यस्य तस्मिन्नेवंविधे 'जीविते' आयुषि च शब्दो व्यवहितः सम्बन्धो 'जलबिन्दुचञ्चले च' कुशाग्रादिलग्नतोयलववच्चपले चेत्यर्थः, उपमात्रयाभिधानमतितरलतादर्शनार्थं, 'यौवने' तारुण्ये, च शब्दाद्रव्यनिचयादौ च 'नदीवेगसन्निभे' सरिज्जलतुल्ये सति, हे 'पापजीव !' दुरात्मन् ! किमिदं न बुध्यसे ? पश्यन्नपीति ।। ४५ ।
-
जीवेण भवे भवे, मिलियाइ देहाइ जाइ संसारे ।
ताणं न सागरेहिं, कीरइ संखा अनंतेहिं ।। ४७ ।।
-
हे आत्मन् ! यच्छरीरार्थं त्वमेवंविधानि पापानि कुरुषे परं ये देहाः संसारे जीवेन 'भवे भवे' जन्मनि जन्मनि 'मुक्ता' स्त्यक्तास्तेषां देहानां
९. बुज्झसे इत्यपि पाठः । २. भवभवे मिहियाइं देहाइ जाइ इत्यपि
२६ वैराग्यशतकम्