SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ व्याख्या - यस्य 'अस्ति' विद्यते, मृत्युना सह 'सख्यं' मैत्री, यस्य चाऽस्ति 'पलायनं' नाशनं, मृत्योरिति प्रक्रमस्तथा यो जानीते यथाऽहं न मरिष्यामि' “सो हु" स एव, ‘काङ्क्षति' प्रार्थयते, 'श्वे' आगमिनि दिने ‘स्याद्, भविष्यतीदमिति गम्यते, ततोऽद्यैव धर्मं कुरुष्वेति भावः ।।४।। गाथा - दंडकलियं करिता, वशंति हु राइओ अ दिवसा य । आउससंविलिंता,' गया य न पुणो नियत्तंति ।।४२।। व्याख्या - हे आत्मन् ! “दण्डकलिय" दण्डरीतिं 'कुर्वन्तो' विदधत ‘आयु'जीवितं 'संवेष्टयन्तः' सन्निहितोपक्रमकारणैर्लघुकुर्वन्तो, 'हुनिश्चये, रात्रयश्च दिवसाश्च व्रजन्ति, अयं भावो-यथा कोलिकदण्डः सूत्रमुद्वेष्टते निखिलमपि तथा आयुरुद्वेष्टयन्तो रात्रिवासराः प्रयान्तीत्यर्थः, परं ते रात्रिदिवसा गताश्च न पुन निवर्तन्ते' प्रत्यागच्छन्ति ।।४२।। गाथा - जहेह सीहो व मियं गहाय, मयू णरं णेइ हु अंतकाले । ण तस्स माया व पिया व भाया, कालंमि तंमिंऽसहरा भवंति।।४३।। व्याख्या - यथेत्यौपम्ये, ‘इहे ति लोके सिंहो' मृगपतिर्वेति पूरणे, ‘मृगं' कुरङ्गं गृहीत्वा प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं मृत्युः कृतान्तो नरं' पुरुषं नयति, 'हुरवधारणे, ततो नयत्येव 'अन्तकाले' जीवितव्यावसानसमये न 'तस्य' मृत्युना नीयमानस्य माता वा पिता वा “भाय"त्ति वा शब्दस्येह गम्यमानत्वाद् भ्राता वा 'काले' तस्मिन् जीवितान्तरूपे 'अंशं' प्रक्रमाजीवितभागं 'धारयन्ति' मृत्युना नीयमानं नरं रक्षन्तीत्यंशधरा भवन्तीत्युक्तं हि"न पिता भ्रातरः पुत्रा, न भार्या न च बान्धवाः न शक्ता मरणात्रातुं, मग्नाः संसारसागरे ।।१।।” इति ।। ४३ ।। गाथा - जी जलबिन्दुसमं, संपत्तीओ तरंगलोलाओ । सुमिणयसमं च पिम्मं, जं जाणसु तं करेजासु' ।।४४।। व्याख्या - हे आत्मन् ! 'जीवितं' प्राणधारणं 'जलबिन्दुसमं' कुशाग्रप्राप्ताम्भो बिन्दुवञ्चञ्चलं, तथा 'सम्पत्तय' ऋद्धय स्तरङ्ग'वद्वीचीवल्लोला' १. आउसं संविलंता इत्यपि पाठः । २. करिज्झासु इत्यपि पाठः । २५ वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy