________________
गाथा
व्याख्या
गाथा
-
२२
जाव न इंदियहाणी, जाव न जरारक्खसी परिप्फुरइ । जाव न रोगवियारा, जाव न मच्चू समुल्लियइ ।।३४।।
-
आत्मन् ! यावद् ‘इन्द्रियाणां’ श्रोत्रादीनां 'हानिः ' स्वस्वविषयग्रहणप्रतिघातो न जातोऽस्ति तथा यावच्छरीरे जरैव राक्षसी, शरीरसर्वस्वग्रसनात्, 'न परिस्फुरति' नाऽऽगच्छति, तथा यावद् ‘रोगाणां’ व्याधीनां, ‘विकारा' असद्रूपाः समुल्लासा न वर्तन्ते, तथा यावन् 'मृत्युः ' कालो, न समाश्लिष्यति न मरणं जायते तावद्धर्मे उद्यमं कुर्वित्यर्थस्तथा चोक्तं भर्तृहरिणा“यावत्स्वस्थमिदं कलेवरगृहं यावज्जरा दूरतो, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नाऽऽयुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्, प्रोद्दीप्ते भवने हि कूपखननं प्रत्युद्यमः कीदृशः । । १ ।।” ।।३४।।
व्याख्या यथा गेहे 'प्रदीप्ते' अग्निप्रकोपे जाते सति कोऽपि कूपं खनितुं 'न शक्नोति' न समर्थो भवति, तथा 'मरणे' परलोकगमने, 'सम्प्राप्ते' आसन्ने जाते हे 'जीव आत्मन् ! धर्मः कथं क्रियेत ?, यदा धर्मस्य करणावसरोऽभूत्तदा न कृतः, सम्प्रति मृत्यूत्सङ्गतः किं विधास्यसीति
भावः ।। ३५ ।।
जह गेहंमि पलित्ते, कूवं खणिउं न सक्कए कोइ । तह संपत्ते मरणे, धम्मो कह कीरए ? जीव ! ।। ३५ ।।
,
,
,
गाथा - रूवमसासयमेयं, विज्जुलयाचंचलं जए जीयं ।
वैराग्यशतकम्
संझाणुरागसरिसं, खणरमणीयं च तारुण्णं ।। ३६ ।।
涨涨涨涨涨